________________
३६२
श्रीदानोपदेशमाला (गा. ८३) तदादाय द्विजः पूर्णकामो धाम जगाम सः । यतो गरीयसां सङ्गः, कस्य न स्यात्फलप्रदः ॥ ५५ ॥ अहो उचितदानेऽस्य, राज्ञो बुद्धिर्विजृम्भते । इत्यद्यापि जनैलॊके, कर्णो व्यावर्ण्यते नृपः ॥ ५६॥ इत्थं जना उचितदानगुणाभिरामं, श्रीकर्णदेवनृपतेश्चरितं निशम्य। एतद्विधानमवधानपराः कुरुध्वं, येनाभवं भवति वो यशसां विलासः ॥५७ ॥
(वसन्ततिलका) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां ___ श्रीदानोपदेशमालावृत्तौ उचितदानविषये श्रीकर्णनरेन्द्रकथा समाप्ता॥ अथ तृतीयमनुकम्पादानमाहइत्तो तं अणुकंपादाणं वुच्छं अतुच्छवच्छलयं । तं पिच्छिऊण सच्छा सययं हियए चमक्कंति ॥ ८२॥
व्याख्या-इत्तो-अतः परम्, तदनुकम्पादानं वक्ष्ये-कथयिष्यामीति क्रियासंबन्धः ॥ तद्विशिनष्टि अतुच्छवच्छलयंति-अतुच्छेनापारेणवात्सल्येन-निरुपमप्रेम्णा, जायत-उत्पद्यत इति अतुच्छवात्सल्यजम् , 'कगचजतदपयवां प्रायो लुगित्यनेन' जस्य अकारः, 'अवर्णो यः श्रुतिरित्यनेन' अकारस्य यादेशः। उत्तरार्द्धा विव्रियते । जं पिच्छिऊणित्ति-यदनुकम्पादानं दात्रा दीयमानं प्रेक्ष्य-दृष्ट्वा, स्वच्छा:- शरन्निशाकरकरनिकरानुकारिमनसः पुंसः, सततं-निरन्तरम्, हृदये-चित्ते, चमत्कुर्वन्ति-आश्चर्यचर्याभाजो भवन्तीति गाथार्थः ।
केषु केष्वनुकम्पादानमासूत्र्यत इति गाथात्रयेण तत्स्वरूपं प्ररूपयन्नाहदीणाणमणाहाणं विहीणचरणाण णयणरहियाणं । बंदिपडियाण बंधणबद्धाणमजंगमाणं च ॥ ८३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org