________________
३४५
सत्पात्रदानविषये श्रीअमरसेन वरसेनकथा राजसूवचसाशासु ते ययुः सोऽपि पादुके । पदोः क्षिप्त्वांसदेशे च कन्थां लकुटसंयुताम् ॥ ९४ ॥ उड्डीय नगरद्वैतीयैकपार्श्वे स्वयं ययौ । विलक्षास्तेऽप्यगुः स्तेनाः, पापिनां क्व श्रियः स्थिराः ॥ ९५॥ युग्मम्॥ स पुत्रीभूय वृद्धायाः कस्याश्चित्सदने स्वयम् । स्थापयामास कन्थादि निधानमिव शाश्वतम् ॥ ९६ ॥ स्वर्लतावत्प्रतिप्रातः कन्थाया झाटनेन सः । रत्नपञ्चशतीं प्राप्य, चिक्रीड नगरे पुनः ॥ ९७॥ गन्धर्वपुरुषाकारं तारशृङ्गारभासुरम् । लीलावन्तं विलोक्याक्का तं विस्मयमवाप सा ॥ ९८॥ मगधां धवले वस्त्रे परिधाप्य तदन्तिकम् । निनाय धनलुब्धा सा पणस्त्रीणां कुतस्त्रपा ॥ ९९॥ दीनानना ततोऽवादीद्वत्स! त्वं मयका तदा ।। अज्ञानया तिरोऽकारि* दुःस्थयेव सुरद्रुमः ॥ १०० ॥ तदादि मगधामेनां त्वद्वियोगाग्नितापिताम् ।। स्वसङ्गमामृतेनाशु निर्वापय महाशय! ॥ १०१।। तस्याः पटूनि चाटूनि शृण्वन्नयमचिन्तयत् । रण्डया चण्डयामण्डि पाखण्डः कोऽप्ययं पुनः ॥ १०२॥ सोऽप्यप्रकाशयंश्चेतोऽभिप्रायं तामभाषत । अम्ब! युक्तमिदं यत्साकरोन्मे विरहाच्छुचम् ॥ १०३ ॥ ममाप्येनां विना वर्षप्रमिता यान्ति वासराः ।। इति तद्गिरमाकाक्का तुष्टा तं गृहेऽनयत् ॥ १०४॥ सलीलं तिष्ठतस्तस्य कियद्भिर्दिवसैर्गतैः । लाभात्पुनः स्वरूपार्थज्ञप्त्यै सा मगधां जगौ ॥ १०५ ॥ * त्वम्' इति व्याप्यत्वात् तिरोऽकारि इति क्रियापदस्थाने तिरोऽकृथाः समीचीनं भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org