________________
,
३४४
श्रीदानोपदेशमाला (गा. ७६) उक्तं च-यो रागोरगदष्टमना, वदति रहस्यं स्त्रीषु । नियमादेव हि तेनात्मा क्षिप्तो दुःखनदीषु ॥ ८२ ॥ विभवोपार्जनाभावाद्विलक्षोऽयं पुरे भ्रमन् ।। निशीथे बहिरुद्यानशून्यदेवकुलं ययौ ॥ ८३॥ स तत्र चतुरश्चौरान् युध्यमानान् परस्परम् । दृष्ट्वा नृपसुतोऽकार्षीच्चौरसांकेतिकं वचः ॥ ८४ ।। तस्करोऽयमिति ज्ञात्वा तैरप्याकारि भूपभूः ।। विवादकारणं तेन, पृष्टास्ते चैवमब्रुवन् ॥ ८५ ॥ वस्तूनि त्रीणि चत्वारो वयं वादयन्तीव नः।। को वो जल्पोऽल्पवस्त्वर्थे कुमारोऽभाषतेति तान् ॥ ८६॥ तेऽप्याहुस्त्वं विमुग्धोऽसि तत्त्वमेषामवैषि न । सस्पृहं नृपजेनापि ते पृष्टा इदमूचिरे ॥ ८७ ॥ आषण्मासीं श्मसानेऽत्र सिद्धेनाराध्य देवताः । वस्तुत्रयमिदं लब्धं जगदाश्चर्यकारकम् ॥ ८८ ॥ अस्माभिरप्याषण्मासीं, हेरयित्वाद्य सोऽवधि । तद्वस्तुत्रयमादाय, वयमत्र समैम च ॥ ८९॥ कन्थायां झाट्यमानायां रत्नपञ्चशती प्रगे । पतति प्रत्यहं धीर! तेनेयं भुवि दुर्लभा ॥ ९० ॥ बंभ्रम्यमाणे लगुडे शस्त्रं लगति नात्मनः । प्रक्षिप्ताभ्यां पादुकाभ्यां नभोगश्च भवेन्नरः ॥ ९१ ।। इति श्रुत्वा स धूर्तेन्द्रो राजसूस्तज्जिघृक्षया । तानुवाच विवादं वो वारयामि रयादहम् ॥ ९२ ॥ अत्र वस्तुत्रयं मुक्त्वा गच्छताशाचतुष्टये । मदाहूत्यागतेभ्यो वो दास्ये तच्च यथाक्रमम् ॥ ९३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org