________________
३४३
सत्पात्रदानविषये श्रीअमरसेन-वरसेनकथा यतः-सा रजनी दिवसोऽप्यथवा विलयं सहसा यातः । क्रियते यत्परापेक्षा पौरुषरहितैर्धातः! ॥ ७० ॥ इति ध्यात्वा स तत्रैव मगधागणिकागृहे ।। विललास यथास्वैरं विभवैः फलसंभवैः ॥ ७१ ॥ स्वनरैः शोधयन् राजा बन्धुशुद्धिमनाप्नुवन् । विषय चाभवद्राज्यश्रीसमालिङ्गशर्मभाक् ॥ ७२ ॥ अविच्छिन्नैर्धनैरेनं विलसन्तं विलासिनी. । दीव्यन्तं देवनैर्दानं ददानमनुपार्जितम् ॥ ७३॥ वरसेनं विलोक्याक्का कुतोऽस्यैष धनागमः ।। एवं विमृश्य मगधां निजपुत्रीमवोचत ॥ ७४॥ युग्मम् ॥ वत्से! पृच्छ स्वभर्तारं कुतस्ते धनलब्धयः । साप्युवाचाम्ब! किं कार्यमनया तव चिन्तया ॥ ७५ ॥ यतस्ततोऽर्थमानीय पूरयत्वेष नः स्पृहाम् ।। तयेत्युक्तापि नामुञ्चत् कुग्रहं ग्रहिलेव सा ॥ ७६ ।। ततो मगधया पृष्टोऽत्याग्रहात्प्राञ्जलाशयः । सोऽब्रवीद् द्रविणोपायं, धूर्तेः को न हि वञ्च्यते ॥ ७७ ॥ इति ज्ञात्वाकया मद्यं, मदनादिफलाविलम् । पायितस्यास्य वमतो जठरान्निरगात् फलम् ॥ ७८ ॥ तदुद्धृत्य फलं वान्तेरमेध्यादपि काञ्चनम् । शुम्भल्या क्षालयित्वात्तं निःशूका हि पणस्त्रियः ॥ ७९ ॥ अमेध्याद्-विष्ठायाः । अयं गृहीतसर्वस्व इति निष्कासितस्तया । काये नीरोगतां ह्याप्ते किं वैद्येन प्रयोजनम् ॥ ८० ॥ पञ्चशत्यामपतन्त्यां गण्डूषेण समं प्रगे । राजसूश्चिन्तयामास धिग्मां स्त्रीषु च तत्त्वदम् ॥ ८१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org