________________
३४२
श्रीदानोपदेशमाला (गा. ७६) स गूढबुद्धिस्तं प्राह, पुरा कौटुम्बिकैर्मम । अर्पितं यत्करद्रव्यं, तत्कोशे न प्रवेशितम् ॥ ५८॥ मार्ग क्रमादतिक्रम्य कुमारौ सप्तमे दिने । श्रीकाञ्चनपुरोधानमलञ्चक्रतुरद्भुतम् ॥ ५९॥ पथश्रान्तोऽमरसेनः सुष्वापाम्रतरोरधः । स्थिरया छायया सोऽपि सत्पुण्यं तमसेवत ॥ ६०॥ यत:-तेलिसुत्तह पुण्णुजलह रुक्ख वि छाव करंति । पुण्णविहूणा माणुसह ते वि परम्मुह हुंति ॥ ६१॥ वस्त्राभरणताम्बूलभोजनादानहेतवे । जगाम वरसेनोऽपि श्रीकाञ्चनपुरान्तरम् ॥ ६२॥ इतश्च तत्पुरस्वामिन्यपुत्रे स्वःपुरं गते । अभ्यषज्यन्त दिव्यानि, पुरोध:प्रमुखैर्जनैः ॥ ६३॥ ससंभ्रमं भ्रमद्भिस्तैः पुरा निर्गत्य सत्वरम् । अभ्यषेच्याम्रवृक्षस्थोऽमरसेनो नरोत्तमः ॥ ६४॥ तेजस्विनं भानुमिव, हरिवद् विक्रमोद्धरम् । तं वीक्ष्य मन्त्रिसामन्ताः प्रणेमुर्विस्मिताशयाः ॥ ६५ ।। श्रीमानमरसेनोर्वीपतिरेकातपत्रितम् ।। पालयामास साम्राज्य, पुण्याढ्यैः किं न लभ्यते ॥६६॥ यदुक्तं-करितुरयरहसमेयं णमंतसामंतमतिपरिकलियं । अक्खयकोससमिद्धं लब्भइ पुण्णेहिं रज्जमिणं ॥ ६७॥ वरसेनोऽपि राज्यश्रीसुभगां भावुकां कथाम् ।। सोदरस्य निशम्याशु मनस्येवमचिन्तयत् ॥ ६८॥ यदहं भूपतेर्धाता, दत्तातो मण्डलादिकम् । इति लोलापि मे लोला, कल्पान्तेऽपि न जल्पति ॥ ६९॥ लोला-चपला, लोला-जिह्वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org