________________
३४१
सत्पात्रदानविषये श्रीअमरसेन-वरसेनकथा ततः शुकी शुकं प्राह, प्रिय! मा खेदमुद्वह । यदेतदुपकारायोपायोऽस्ति मयका स्मृतम् ॥ ४६॥ सुगूढपर्वते गूढनिकुञ्जाभिधकानने । विद्याभिषिक्तबीजौ स्तो विद्याभृद्भिः प्ररोपितौ ॥ ४७ ॥ लघुस्थूलफलोपेतौ सच्छायौ चूतपादपौ । तयोर्माहात्म्यमन्येद्युः श्रुतं विद्याधरादिति ॥ ४८॥ युगलम्। यस्योदरे रसालस्य, तिष्ठत्यात्तं फलं लघु । यावत्तावत्तदीयास्याद् दीनारशतपञ्चकम् ॥ ४९ ॥ गण्डूषेण समं सूर्योदये पतति नित्यशः । यस्तु स्थूलं फलं भुङ्क्ते, राज्यं तस्याह्नि सप्तमे ॥ ५० ॥ युग्मम्॥ माहात्म्ये वरसेनेनेति श्रुते तन्मुखात्ततः । ताभ्यामानीय तस्याग्रे, फले मुक्त्वोदडीयत ॥ ५१ ॥ सत्यमेतदुतासत्यं वरसेनो व्यचिन्तयत् । यद्वा विद्याबलात्किं न स्यात्ते इति स चाददे ॥ ५२ ॥ अथ प्रहरके ज्येष्ठस्तस्थौ सुष्वाप चानुजः । सूर्योदये समुत्थाय चेलतुः पुरतः पुनः ॥ ५३॥ राज्यप्रदं फलं भ्रात्रे दत्त्वान्यत् स्वयमत्तवान् । वरसेनो न चावादीत् तत्प्रभावं तदग्रतः ॥ ५४॥ गच्छन्तौ पथि तावेकं पश्यतः स्म पुरः सरः । ततो लघीयानेकाकीभूय तत्तीरमासदत् ॥ ५५ ॥ तत्रास्यक्षालनं कुर्वन् स गण्डूषाम्बुना समम् । पुरः पतितमद्राक्षीद्दीनारशतपञ्चकम् ॥ ५६॥ तद् गृहीत्वा प्रतिग्रामं विलसन् भोजनादिभिः । स ज्येष्ठबन्धुनाप्रच्छि, वत्सेदं द्रविणं कुतः ॥ ५७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org