________________
३४०
श्रीदानोपदेशमाला (गा. ७६) महीधरशिरोनिर्यत्तटिनीवेगशब्दितैः ।। ख्यापयन्तीमिवात्यर्थं स्वमहत्त्वस्य वैभवम् ॥ ३४॥ आदिकुलकम् ॥ तस्यामटाट्यमानौ तावटव्यां श्रान्तमानसौ । सायं कुमारौ विश्रान्तौ सहकारतरोस्तले ॥ ३५ ।। वरसेनो जगौ ज्येष्ठं रुष्टस्तातः किमावयोः । ज्यायान् जजल्प न स्वल्पमपि जानामि कारणम् ॥ ३६॥ शैशवं यावदावाभ्यां विरूपं क्वाप्यकारि न । परं विलसितं मातुः सपत्न्या एव शक्यते ॥ ३७॥ आवामवेक्ष्य विच्छाया शशिमूर्त्तिरिवाहनि । रोषारुणाक्षिपातेन सास्नापयदिवासृजा ॥ ३८॥ वरसेनः पुनः प्राह भ्रातस्तातस्तदीयकैः । अलीकवचनोद्गारैः कथमेवं विचेष्टते ॥ ३९ ॥ अग्रजः प्राह यद्वत्स! नार्योऽनार्यहृदो नरम् । सत्याभिरिव मिथ्याभिर्वाग्भिः सत्यापयन्त्यमूः ॥ ४० ॥ स्वभावकुटिलस्वान्ताः स्मृताः प्रायः पुरन्ध्रयः । अतश्चरित्रमेतासां दुर्जेयममरैरपि ॥ ४१ ॥ यदुक्तम्-सायरजलपरिमाणं सुरगिरिमाणं तिलोयसंठाणं । जाणंति बुद्धिमंता महिलाचरियं ण याणंति* ॥ ४२ ।। यद्वावयोरसावेव, जातोपकृतिहेतवे । यया देशान्तरोऽदर्शीति जल्पन् स्वपिति स्म सः ॥ ४३॥ लघुः प्रहरके तिष्ठन्, सहकारोपरिस्थितम् । मिथः कथां प्रकुर्वाणं शुकयुग्मं व्यलोकयत् ॥ ४४ ।। शुकः शुकीमवक् कान्ते! यदिमौ पुरुषोत्तमौ । सत्काराही न तच्चास्ति वस्तु येनोपकुर्वहे ॥ ४५ ॥
* पाईय. सू. ९७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org