________________
m
सत्पात्रदानविषये श्रीअमरसेन-वरसेनकथा आज्ञाप्रमाणमित्युक्त्वा नत्वा भूपं स वेगतः । न्यवेदयन् नृपादेशं वाह्यालिं कुर्वतोस्तयोः ॥ २२॥ ताभ्यामपि व्यचिन्त्यस्मदन्यायः कोऽपि भूपतेः । मानसे जागरुकोऽभूखेनैवं वधमादिशत् ॥ २३ ॥ ततः प्रोचे च मातङ्ग! तातादेशं कुरु द्रुतम् । यतो भृत्याः प्रभोः कार्ये विलम्बन्ते न कर्हिचित् ॥ २४॥ सकृपः सोऽपि तावूचे प्रसद्य मयि सेवके । भवन्तौ गच्छतां नंष्ट्वा जवाद्देशान्तरे क्वचित् ॥ २५ ॥ तावूचतुः कृते त्वेवं त्वं सपुत्रोऽपि हन्यसे । तथा न तन्वहे येनास्मदर्थे पीड्यते परः ॥ २६॥ कर्ताहमात्मनो रक्षामित्युक्ते श्वपचेन तौ । विहाय तुरगौ वेगाज्जीवनाशं प्रणेशतुः ॥ २७॥ हयावादाय मातङ्गः शीर्षे चित्रकरात्तयोः । कृत्रिमे कारयित्वासौ सायं भर्तुरदर्शयत् ॥ २८॥ राजाप्याख्यदिमे शीर्षे शूलायामधिरोपय । एवं करिष्य इत्युक्त्वा, मातङ्गो निरगाद् बहिः ॥ २९ ॥ तद्विनाशं नृपाद् ज्ञात्वा सुयशाः कुयशोगृहम् । अतः परं सुतानां मे राज्यं भावीति साहषत् ॥ ३० ॥ कुमारावपि वेगेनोल्लङ्घयन्तौ महीतलम् । क्रमादटविकामेकामुदैखेतां पुरःस्थिताम् ॥ ३१ ॥ तमालतालहिन्तालैरिव क्लृप्तनिचोलिकाम् । आश्रितां तामसव्यूहैर्भीतभीतै रवेरिव ॥ ३२ ॥ शार्दूलबहलव्यालचित्रचित्रकसंचयैः । व्यञ्जयन्तीमिव स्वाङ्गं रौद्ररौद्ररसोत्तरम् ॥ ३३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org