SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३३८ श्रीदानोपदेशमाला (गा. ७६) देशान्तरादुपायातस्तस्मिन्नवसरे पतिः । सशोकामिव तां वीक्ष्य प्राख्यन्मधुकिरा गिरा ॥ १० ॥ कृतान्तः कुपितस्तस्य तस्य वा मस्तकद्वयी । सिंहो जागरितस्तेन यस्त्वां कोपितवान् जडः ॥ ११ ॥ त्वदाज्ञा केनचिल्लुप्तापराद्धं वा क्वचिन्मया ।। तत्प्रसद्य प्रिये! ब्रूहि, मा मां खेदय खेदय ॥ १२ ॥ धूमोर्णेव सधूम्रास्या, सपूत्कारोरगीव सा । राक्षसीव जिघत्सन्ती, सोत्तालं कान्तमालपत् ॥ १३ ॥ साधु वः कुलधर्मोऽयं, काम्यतेऽम्बापि यत्सुतैः । इत्यनल्पकुकल्पं सा जल्पं कृत्वा क्षणं स्थिता ॥ १४ ॥ प्रिये! किमेतदेवं क्षमापेणोक्ता सा दुराशया । जजल्पास्वल्पकल्पान्तकल्पं जल्पं तदाग्रतः ॥ १५ ॥ नाथ! त्वयि गते ग्रामं, वैजयेयौ तनूद्भवौ । संभोगहेतवे तौ मां, प्रार्थयामासतुस्तमाम् ॥ १६ ॥ प्रविश्यान्तःपुरस्यान्तः कथंचन मया प्रिय! । भवदागमनं यावत्पालितं शीलमुज्ज्वलम् ॥ १७॥ युग्मम् ॥ तच्छ्रुत्वा नृपतिः कोपात्समाकार्य जनङ्गमम् । शिरश्छेदं समादिक्षद् वैजयेयकुमारयोः ॥ १८ ॥ मातङ्गोऽपि नृपादेशं श्रुत्वैवं हृद्यचिन्तयत् । यदसौ काशसंकासगुणयोरेतयोरपि ॥ १९ ॥ मामादिशद्विनाशाय कुग्रहग्रहिलाशयः । तन्मन्येऽस्यावनीजानेरुपतस्थेऽन्तिमा दशा ॥ २०॥ युग्मम् ॥ एतदेव परं चारु यत्कार्यं पुरतो मम । अब्रवीदेष तन्नूनं करिष्ये हितमेतयोः ॥ २१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy