________________
३३७
सत्पात्रदानविषये श्रीअमरसेन-वरसेनकथा एनमेवार्थं दृष्टान्तेन दृढयन्नाहसिरिअमरसेणवरसेणयाण अच्छरियकारिचरियाण । सुविहियदाणा लडहो झणहणइ जए विजयपडहो ॥ ७६॥
व्याख्या-आश्चर्यकारिचरितयोरद्भुतजनकचरित्रयोः श्रीअमरसेनवरसेनकयोः, सुविहितदानात्-मुनिदानाल्लडहो देशीभाषया प्रधानं विजयपटहो जगति-भुवने झणहणइ-शब्दायत इति गाथार्थः ।। भावार्थः कथानकगम्यस्तच्चेदम्श्रीकलिङ्गाभिधे देशे निवेशे सर्वसंपदाम् । अस्ति रत्नपुरं नाम पुरं सुरपुरोपमम् ॥ १॥ तत्र श्रीविजयादेवीसुयशादयितायुतः ।। सूरसेनोऽवनीजानी राज्यं पालयति स्म सः ॥ २॥ दायादैरन्यदाकस्माद् राज्याद्राजा निराकृतः । कुरुदेशे गजपुराधीशं सोममसेवत ॥ ३ ॥ सोमभूपवितीर्णाढ्यग्रामेषु वसतः सतः । राजस्तस्यादिमा राज्ञी, सुषुवे तनयावुभौ ॥ ४॥ प्रथमोऽमरसेनाख्यो द्वितीयो वरसेनकः । रञ्जयन्तौ गुणैः पौरांस्तौ प्राप्तौ यौवनश्रियम् ॥ ५॥ सपत्नमाता सुयशा राज्यभारधुरन्धरौ । सर्वाङ्गसुन्दराकारौ तौ दृष्ट्वैवमचिन्तयत् ॥ ६॥ सर्वन्यायविदोळक्तमनयोर्विद्यमानयोः । कथं मदीयपुत्राणां राज्यलक्ष्मीभविष्यति ॥७॥ ततः प्रभृति सा चिन्ताचान्तचित्ता तयोश्छलम् । अहर्निशं विनाशाय शाकिनीव स्म पश्यति ॥ ८॥ तयोर्विनीतयोः पापा न पश्यन्तीच्छलं क्वचित् । कूटनाटकमारेभे भर्तुर्वञ्चनहेतवे ॥ ९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org