________________
३३६
श्रीदानोपदेशमाला (गा. ७५) गणैर्महिमानमुपार्जयन्ति, तथापि दानं विना यशोऽर्जनेऽसहिष्णवः ॥ यदुक्तंचातुर्यवर्योऽपि गुणाकरोऽपि, सौजन्यपुण्योऽपि जनप्रियोऽपि। दानं विना नैव नरः स्वकीर्त्या, विश्वं विधत्ते धवलं कदापि ॥ १ ॥(इन्द्रवज्रा) इति गाथार्थः ॥ ये परगृहप्रेष्यत्वगता अपि दानोन्मुखास्तानुपश्लोकयितुमाहजे परघरपेसत्तं गया सया धणकणेण रहियावि । भुंजंति संविभत्तं ताण णमो दाणवीराणं ॥ ७४॥
व्याख्या- ये मनुष्याः परगृहप्रेष्यत्वम् -अन्यमन्दिरदासत्वम्, गताः-प्राप्ताः, तत्रापि सदा-नित्यम्, धनकणेन-द्रव्यलवेन, रहिता अपि-नि:स्वा अपि, वित्ते सति कृपणस्यापि स्यात्कदाचिद्दानोल्लासः । अत एवंविधा अपि संविभक्तं-साधुजनसंविभागीकृतमर्थादशनादिकं भुञ्जते-आस्वादयन्ति, तेभ्यो-दानवीरेभ्यो नमोनमः । उक्तं चते च्चिय जयम्मि धन्ना ताण गया पाणिपल्लवे लच्छी । जे अतिहिसंविभागं काऊण सयावि भुंजंति ॥ १॥ इति गाथार्थः । पात्रप्रयुक्तदानानां का गुणावाप्तिः स्यादित्याहविप्फुरइ जसं तेसिं गिहंगणे उल्लसंति रिद्धीओ । जायइ सिवसुक्खं चिय जे पत्ते विहियवरदाणा ॥ ७५॥
व्याख्या-तेषां-प्राणिनाम, यश:-कीर्त्तिर्विस्फुरति-सर्वत्र प्रवर्त्तते, न केवलं यश: किन्तु गृहाङ्गणे ऋद्धयः-करि-हरि-रथ-पत्ति-धनधान्य-मणि-मुक्ताफल-स्वर्ण-तारुण्य-लावण्य-पुण्यकलत्र-पुत्र-मित्राद्या उल्लसन्ति-प्रसर्पन्ति। आस्तां तावत्स्वर्गापवर्गश्रियः किन्तु शिवसौख्यमपि-मोक्षसुखमपि जायते-संपनीपद्यते। ये पात्रे सुसाधोविहितवरदाना:-कृतसप्तचत्वारिंशद्दोषरहिताशनादिवितरणा इति गाथार्थः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org