________________
३३५
साधोर्भेषजदानविषये कपिराजकथा तद्वचःश्रवणोत्पन्नामन्दानन्दो मुनीश्वरः । प्रददे कपिराजायानशनं पापनाशनम् ॥ २९ ॥ तच्च साधुमहाम्भोधेर्दक्षिणावर्तशङ्खवत् । दुष्प्रापमाप्य कपिना स्वात्मा धन्यो ह्यमन्यत ॥ ३० ॥ दिनत्रयेण भावेन प्रपाल्यानशनं कपिः । विपद्याष्टादशाब्ध्यायुः सहस्त्रारे सुरोऽभवत् ॥ ३१ ॥ को मयाराधितो देवः को गुरुः पर्युपासितः । किं वा तपः कृतं येन संप्राप्ता पदवीदृशी ॥ ३२ ॥ इति ध्यायन् सुरो मत्वा निजं कपिभवं भवम् । अनगारोपकारं च ततस्तं नन्तुमागमत् ॥ ३३ ॥ भावेन मुनिमानम्य निजे गच्छे नियोज्य च । स्वरूपमात्मनः प्रोच्य सहस्रारमगात्सुरः ॥ ३४ ॥ इत्थं मुनेर्भेषजदानपुण्याद्यथा कपिः प्राप दिवः समृद्धिम् । तथा तदीयापरमानसेन विवेकिना शश्वदिदं विधेयम् ॥ ३५ ।। (उपजाति:) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्य श्रीदेवेन्द्रसूरिविरचितायां
श्रीदानोपदेशमालावृत्तौ भेषजदाने कपिकथा समाप्ता ॥ भेषजदानवैषयिकं कपिदृष्टान्तमुक्त्वा व्यापद्व्यापगतानामपि दातृणां महत्त्वमाहसंकडसंपडियाण वि जेसिं उपज्जई मई दाणे । ससहरसरिसजसाणं ताण णमो दाणवंताणं ॥ ७३॥
व्याख्या-संकटसंपतितानामपि-नानाविधापद्गतानामपि, येषां दानेऽशनादिप्रदाने मतिर्बुद्धिरुत्पद्यते-संजायते एतावता तेषां-दानशौण्डानां मध्ये सर्वोत्कृष्टत्वमुक्तं, यतः सुखिनो दानमतयः स्युर्न दुःखिनः, अत एव शशधरसदृशयशोभ्यश्चन्द्रावदातकीर्त्तिभ्यस्तेभ्यो दानदातृभ्यो नमोऽस्तु-नमस्कारो भवतु। यद्यपि गुणिनः प्रगुणगुण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org