________________
३३४
तेनाहं प्राप्तवांस्तिर्यग्भवं चैतन्यशून्यकम् । हहा क्लेशाय संसर्गे दुर्जनानामिवैनसाम् ॥ १७॥ यद्यप्यन्नादिकं दातुं पशुभावान्न हि प्रभुः । तथाप्यस्यानगारस्य, शल्योद्धारं करोम्यहम् ॥ १८॥ इति ध्यात्वा गिरौ गत्वा विशल्यां व्रणरोहिणीम् । द्वे मूलिके समादाय स मुनेः पार्श्वमाययौ ॥ १९ ॥ साधुपादे लगितया दन्तचर्वितयाद्यया । वानरः शल्यमुद्दध्रे रोहयामास चान्यया ॥ २०॥ अथ सज्जीकृते तस्मिन् हरिर्वक्तुमनीश्वरः । लिलेख प्राग्भवं सम्यग् मुनेः पुरत आत्मनः महात्मापि श्रुतज्ञानेनावगत्य तथैव तम् । वानरप्रतिबोधाय विदधे धर्मदेशनाम् ॥ २२ ॥ अस्मिन्नसारे संसारे, भृशं संसरतां सताम् । एक एव भवेत् त्राणं धर्मः श्रीजिनभाषितः ॥ २३ ॥ स च स्वाराधितः पुंभिरिह राज्यादिसौख्यदः । परलोके तथा स्वर्गापवर्गसुखदायकः ॥ २४ ॥ तदीदृगुपुण्यमाहात्म्यमवबुध्य प्लवङ्गम ! तमेवाङ्गीकुरु यथा स भवेत्तव शर्मदः ॥ २५॥ मुनिवक्त्रेन्दुनिर्गच्छद् वचनामृतमेतत् । निपीय कपिराजोऽभूत्परमानन्दनन्दितः ॥ २६ ॥ संवेगादलिखच्चैवं मुनीन्द्र ! पशुभावतः + मया दुष्प्रतिपाल्यानि नियमादीन्यसंशयम् ॥ २७ ॥ तदेतर्ह्येव हे साधो ! दयामय! दयां मयि । विधायानशनं देहि यथा स्यां सुखभाजनम् ॥ २८॥
।
श्रीदानोपदेशमाला (गा. ७२)
Jain Education International
For Personal & Private Use Only
॥ २१॥
www.jainelibrary.org