________________
३३३
साधोर्भेषजदानविषये कपिराजकथा एकस्तन्मध्यगः साधुश्चरणत्राणवानपि । चरणत्राणहीनांहौ कीलेन समविध्यत ॥ ५॥ तस्मिन् पदात्पदमपि गन्तुं तद्व्यथयाक्षमे । सर्वेऽपि साधवः प्राहुः, सुधामघुरया गिरा ॥ ६॥ महात्मंस्त्वत्पदेऽतुल्या शल्यपीडातिदुःसहा । इयमप्यटवी सर्वशून्या श्वापदसंकुला ॥ ७॥ तत्त्वं नि:शङ्कमस्माकं, स्कन्धमारोह संप्रति । यथेमां वयमुल्लङ्घ्य, यामो ग्रामान्तरे क्वचित् ॥ ८॥ युग्मम् ॥ इत्याकर्ण्य मुनिं प्रोचे भो भोः समयवेदिनाम् । भवादृशामिदं वाक्यं तथ्यं पथ्यं पुनर्मम ॥ ९॥ तथापि मम देहस्य, गत्वरस्य कृते मुधा । मा विनश्यत तद्यूयं सार्थेन सह गच्छत ॥ १० ॥ शल्येऽस्मिन् निर्व्यथीभूतेऽस्म्यहमागत एव हि । भवद्भिरवगन्तव्यो नान्यथेति विनिश्चयः ॥ ११ ॥ तस्येत्यायतिहद्यानि वचांस्याकर्ण्य साधवः । ततोऽटवीं लघूल्लङ्घ्य, क्वापि ग्रामे “वसत्यगुः ॥ १२ ॥ अत्रान्तरे स यूथेशो गोलाङ्गल इतस्ततः । पर्यटन्मूर्तिमद्धर्ममिव साधुं न्यभालयत् ॥ १३ ॥ क्वापीदृशो मया दृष्टः पुरासीदिति चेतसि । ईहापोहां प्रकुर्वाणः कपिः प्राग्भवमस्मरत् ॥ १४॥ श्रीकृष्णशासितायां श्रीद्वारवत्यां महापुरि ।। नाम्ना वैतरणिवैद्योऽभवं वैद्यधुरन्धरः ॥ १५ ॥ सपापैर्भेषजवातैः, कुपात्राङ्गिचिकित्सितम् । कुर्वता यन्मया पापमूर्जस्वलमुपार्जितम् ॥ १६ ॥ * एष प्रयोगश्चिन्त्यः, वसतिम् इति समीचीनो भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org