________________
श्रीदानोपदेशमाला (गा. ७२)
३३२
आणासरणं सारं खु अरहंताणं, तेणट्टेणं गोयमा एवं वच्चइ । से गिलाणं पडियरेइ सो मे दंसणेणं पडिवज्जइ इति ॥ इति गाथार्थः ॥ साधुचिकित्सायां कृतायां किं फलं स्यादिति गाथाद्वयेनाहउद्धरिय विसल्लाए सल्लं संरोहिऊण वणघायं । संरोहिणीइ साहू सज्जो सज्जीकओ जेण ॥ ७१ ॥ तदुवज्जियसुकएणं वाणरजूहाहिवेण संपत्तो । सहसारकप्पवासो जं तेणं तं किमच्छरियं ॥ ७२ ॥
व्याख्या- उद्धृत्य-निष्कास्य विशल्यया - महौषध्या, किं तच्छल्यं - पदतलप्रविष्टं काष्ठकीलकं, संरोहिण्या - मूलिकया, व्रणघातं - पदव्रणविवरं, संरोह्य - निर्व्यथीकृत्य, साधुर्महात्मा, सद्यस्तत्काल - मेव, सज्जीकृतो येन, तेनेत्यग्रगाथायां सम्बन्धः । तदुवज्जियत्ति - तस्माद् भेषजदानादुपार्जितं यत्सुकृतं पुण्यं तेन, वानरयूथाधिपेन-कपिकुलनायकेन, सहस्रारकल्पवासोऽष्टमकल्पनिवासो यत्तेन प्राप्तो - लब्धस्तत्- किमाश्चर्यं तत्किं चित्रमल्पत्वात् किन्तु मोक्षसौख्यमप्यवाप्यत इति गाथायुगार्थः ॥
भावार्थस्तु कथानकादवसेयस्तच्चेदम्अस्त्यौन्नत्यश्रियावन्थ्यो
विन्ध्यो नाम महीधरः 1 ये भद्रजातिनागानामेक एवालयः क्षितौ ॥ १ ॥ तस्य चोपत्यकाभागेऽटवी द्वादशयोजना ।
या भारतकथेवास्ति, नकुलार्जुनभूषिता ॥ २॥ तस्यां चैकः कपिः कोऽपि वानरीनिवहैः सह 1 भुञ्जानो भङ्गुरान् भोगान्, समयं गमयत्यलम् ॥ ३॥ इतश्च कस्यचित्सार्थपतेः सार्थे मुमुक्षवः । विहरन्तो महीपीठमटव्यां समुपाययुः ॥ ४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org