SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ साधोर्भेषजदानस्वरूपम् ३३१ तथापि हि स पापीयाल्लोभतृष्णातिबाधितः । आयुःक्षये विपन्नः सन्, दुर्गदुर्गतिभागभूत् ॥ ४२ ॥ इति मम्मणस्य वणिजस्य चरितमतिदुःखकारणम् । स्वीयमनसि विनिधाय बुधाः! प्रविधत्त साधुजनदानमादरात् ॥४३॥ (सौरभकम्) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ अदानविषये मम्मणश्रेष्ठिकथा समाप्ता॥ अदानवैषयिकं मम्मणश्रेष्ठिदृष्टान्तमुक्त्वा संप्रत्यौषधदानमाहउद्दामकाममयगलकुम्भत्थलदलणसबलसिहाणं । पडिजागरणं कुजा ओसहदाणा महरिसीणं ॥ ७०॥ __ व्याख्या-उद्दाम-उत्कटो योऽसौ काम:-कन्दर्पः, स एव मदकलो-गजस्तस्य यत्कुम्भस्थलं-करटप्रदेशस्तस्य यद्दलनं-विदारणं तत्र सबलाः-शौण्डीर्यशालिनः सिंहा इव-शार्दूला इव तेषाम्, यतो हर्यक्षकर्यादिजयिनः सुबहवो दरीदृश्यन्ते, किन्तु कन्दर्पजयिनो विरला एव ॥ यदुक्तम्मत्तेभकुम्भदलने भुवि सन्ति शूरा, उग्रप्रचण्डमृगराजवधेऽपि दक्षाः । किन्तु ब्रवीमि कृतिनां पुरतः प्रसा, कन्दर्पदर्पदलने विरला मनुष्याः ॥१॥ (वसन्ततिलका) एवंविधानां महर्षीणां-मुनीनामौषधदानाद्वातपित्तश्लेष्मशल्याधुपशामकभेषजकारापणात्प्रतिजागरणं रोगाद्यातङ्कोत्पत्त्यां सजीकरणं कुर्याद्विदध्यात् । यतः सर्वेष्वपि दानेष्वमुष्य महन्माहात्म्यमुक्तं सिद्धान्ते-कह णं भंते! जे गिलाणं पडियरेइ से धण्णे उयाहु जे तुमं दंसणेणं पडिवजइ। गोयमा जे गिलाणं पडियारइ से मे दंसणं पडिवज्जइ। जे मे दंसणेणं पडिवज्जइ। से गिलाणं पडिवयरइ। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy