________________
३३०
श्रीदानोपदेशमाला (गा. ६९) सोऽप्यूचे नृपते! द्रव्योपार्जनाय वणिक्सुताः । स्थलमार्गेऽम्बुमार्गे च प्रेषिताः सन्ति केचन ॥ ३० ॥ कृषिप्रभृतिकृत्येषु केचिच्च विनियोजिताः । विद्यते नियतं यस्माद्वणिजानामियं स्थितिः ॥ ३१ ॥ नृपः स प्रालपद् भद्र! यद्येवं तर्हि किं वृथा । त्वया काष्ठसमाकृष्टिक्लेशोऽयमनुभूयते ॥ ३२॥ मम्मणोऽप्याह भूपाल! देहः क्लेशसहो मम । अतो मयान्यव्यापाररहितेनायमादृतः ॥ ३३ ॥ पार्थिवोऽपि जगौ श्रेष्ठिन्नेतावति धने सति । कुकर्तव्यमिदं कर्तुं भवतो नैव युज्यते ॥ ३४ ॥ यद्धनं त्यागभोगाय कदाचन न जायते । तेनेक्षुपुष्पवत्किं स्यान्निष्फलेन प्रयोजनम् ॥ ३५ ॥ तदेतन्नलिनीपत्रगताम्भ:कणसंनिभम् । अवबुध्य निजे चेतस्युपभुङ् क्ष्व यथासुखम् ॥ ३६ ॥ समये साधुवर्गेषु विनियुक्ष्वातिभक्तितः । कृपयानाथदीनान्धदुःस्थेषु वितनुष्व च ॥ ३७॥ यथा सम्पद्यते सर्वं फलेग्रहि महाशय! । किमेतेनोक्षसंपूर्णीकरणेन करिष्यसि ॥ ३८॥ कुलकम्॥ मम्मणोऽप्यवददेव! जानाम्येवं तथापि मे । अमुं वृषभमनापूर्य दाने धीन प्रवर्तते ॥ ३९ ॥ नोपदेशार्ह एवायमिति संचिन्त्य भूपतिः । देव्या चेल्लणया युक्तो निजप्रासादमासदत् ॥ ४० ॥ मम्मणोऽपि हि तत्तादृक्क्लेशावेशवशेन तम् । द्वितीयं वृषभं पूर्णीचकार कृपणाशयः ॥ ४१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org