________________
अदानविषये मम्मणश्रेष्ठिकथा
___३२९ ततः साह विभो! पश्य कथमेतेन दुःखिना । रौद्रायाः सरितः काष्ठाकृष्टिक्लेशोऽनुभूयते ॥ १८॥ तदेनं धनदानेन कुरुष्व सुखशालिनम् । ता एव हि श्रियः शूघ्याः याः स्युः सर्वोपकारिकाः ॥ १९ ॥ इति श्रुत्वा विशामीशस्तमाकार्य समालपत् । भद्र ! कस्त्वं किमित्येवं त्वयात्मा क्लिश्यतेऽधिकम् ॥ २०॥ ततः स प्राह भूपालात्र वास्तव्योऽस्मि मम्मणः । श्रेष्ठी वृषभयुग्मार्थमेवं क्लिश्यामि संततम् ॥ २१ ॥ राजा जगाद हे श्रेष्ठिन्! वृषभाणां शतं तव । वितरिष्यामि तन्नूनममुं क्लेशं परित्यज ॥ २२ ॥ मम्मणः प्राह राजेन्द्र! त्वं न जानासि मे वृषौ । यदेकोऽनेकशो द्रव्याण्यर्जयित्वा कथंचन ॥ २३ ॥ रत्नैर्निर्माय संपूर्णीचक्रेऽन्यश्चावशिष्यते । अतस्तत्पूरणायायं प्रयासः प्रविधीयते ॥ २४॥ युगलम्। राज्ञा निजगदे भद्र! स्वोक्षाणौ मे प्रदर्शय । महाप्रसाद इत्युक्त्वा ततोऽसौ मम्मणो वणिक् ॥ २५ ॥ देव्या चेल्लणया सार्धं गृहे नीत्वा नरेश्वरम् । वृषभौ रत्ननिर्वृत्तौ ज्योतीरम्यौ न्यभालयत् ॥ २६॥ युग्मम्॥ प्रजाप्रभुरभाषिष्ट श्रेष्ठिन्नेतत्सदृग्मम । कोशे नो एकमप्यस्ति रत्नं तत्करवाणि किम् ॥ २७ ॥ तथापि हि त्वमेवास्य द्वितीयस्य ककुद्मतः । संपूर्णीकरणायालं त्वत्तो नान्यः पुमानिह ॥ २८॥ परं त्वमपि नो काष्ठैरमुं पूरयितुं प्रभुः । तत्त्वयायं कथं पूर्णीकर्त्तव्यस्तन्निवेदय ॥ २९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org