________________
३२८
श्रीदानोपदेशमाला (गा. ६९) तदाभिनवजीवेशागमने वसुधावधूः । तत्कालोत्थाङ्करैर्नीलं पर्यधत्तेव कञ्चकम् ॥ ६॥ प्रादुरासीत्तरां विद्युज्झात्कारो गगनाङ्गणे । वियोगिनीजनप्राणहरणे यमदूतवत् ॥ ७॥ समग्रजगदानन्दजनकोऽपि वियोगिनाम् । जनानां गर्जितारावः कर्णशूल इवाभवत् ॥ ८॥ आशामृगीदृशीहाराकाराः स्फारा धाराधरः । धारा विकिरति स्मारं केकिदत्तमुदांभराः ॥ ९॥ प्रौढिं गतेन तेनाभ्रपटलैहेलिमण्डलम् । तिरोहितं हिताय स्यात् किं खलानां खलूदयः ॥ १०॥ वाहिन्यो नीचगामिन्यः कुलटा इव जज्ञिरे । मार्गा अपि भृशं पङ्काविला दुर्जनचित्तवत् ॥ ११॥ अखण्डधारमम्भोदे परितः परिवर्षति । समस्तमपि भूपीठं नावातार्यमजायत ॥ १२॥ अस्मिन्नवसरे राजा राज्या चेल्लणया सह । प्रदोषसमये सप्तभूमिकं सौधमासदत् ॥ १३ ॥ तत्रस्था चेल्लणा पूरागतसिन्धुप्रवाहतः । महाकष्टेन काष्ठानि समाकर्षन्तमुच्चकैः ॥ १४ ॥ कृतकच्छोटकं कंचिन्मनुष्यमतिदुःस्थितम् । समालोक्य प्रजापालपुरस्तादित्यभाषत ॥ १५॥ युग्मम् ॥ प्राणेश! श्रूयते चैवं यन्नृपैर्जलदैरिव । भृता भ्रियन्ते यत्नेन, त्यज्यते शुषिरो नरः ॥ १६ ॥ इत्याकर्ण्य सकर्णानां वो वर्णपतिर्जगौ । प्राणप्रिये! किमेवं त्वं, सोपलम्भं प्रजल्पसि ॥ १७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org