________________
अदानविषये मम्मणश्रेष्ठिकथा
३२७ योगान्निरर्गले-प्रचुरे, विभवजाते-धननिचये, प्राप्तेऽपि-लब्धेऽपि, येषां-पाप्मनाम् , तृष्णया तरलितमनसां-धनसंचयरूपतया लुब्धचेतसाम्, न दानबुद्धिर्न दानविषये मतिः, अहो कृपणतायाः कोऽपि प्रकर्षः। यत्परमन्यस्मै दानं ददानं विलोक्य कृपणो महदुःखमनुभवति । यतः-किविणु पुच्छइ अण्णकिविणस्स, कई भाइय दुम्मणउं मग्गियं तुमादिण्णु कस्सइ । ण हु भाइय दिण्णुमई अवरु देइ महु हियउ फुट्टइ ॥१॥ तसु दीयंता देखि करि लंघण पंच करेउं । अहवा भाइय तहिं समइ झंप हुयासणि लेउं ॥२॥
तेसिंत्ति-तेषामकृतसुकृतानाम् सुपात्रप्राप्तिः-सुसाधुलब्धिः, मनुष्यभवो-मानुषं जन्म, जीवितं-जीवितव्यम्, तथा धनं-द्रव्यम्, च:- समुच्चये। घणियम्-अत्यर्थम्, सकलं-सर्वम्, विफलं-निरर्थकम्, प्रतिभाति-प्रतिभासते। कस्येव मम्मणश्रेष्ठिवत् , यथा तस्यात्यन्तकार्पण्यादियं सामग्री सती निरर्थिकाभूत्तथापरस्यापीति गाथायुगार्थः ।। भावार्थस्तु संप्रति प्रपञ्च्यते स चायम् ॥ मगधेऽस्त्यखिलश्रीणां गृहं राजगृहं पुरम् । यत्र निस्त्रिंशताशब्दः श्रूयतेऽसिषु नो नृषु ॥ १॥ तत्राभूद् दूरितारातिश्रेणिः श्रेणिकभूपतिः ।। यस्यानिशं स्वयं शक्रश्चक्रे सम्यक्त्ववर्णनम् ॥ २॥ तस्यासीच्चेल्लणादेवी यस्याः शीलं सुनिर्मलम् । रूपं चात्यद्भुतं वीक्ष्य, कैः कैः शीर्षं न चूर्णितम् ॥ ३॥ तदा दयितया साकं भोगाननुभवन्नृपः । समयं गमयाञ्चक्रे दोगुन्दक इवामरः ॥ ४॥ अन्यदा दुर्जनेनेव, ग्रीष्मेण परितापितान् । नृनाश्वासयितुं वर्षासमयः सन्निवाययौ ॥ ५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org