SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२६ श्रीदानोपदेशमाला (गा. ६९) ज्ञानातिशयतो ज्ञात्वा तवृत्तान्तं यथास्थितम् । गुरवः कथयामासुर्निजान्तेवासिनां पुरः ॥ २३ ॥ ततः कुतोऽपि तन्मृत्युं सोमदेवादयो द्विजाः । नागश्रिया कृतं ज्ञात्वा, तां गेहान्निरवासयन् ॥ २४॥ तय॑माणा पुरन्ध्रीभिर्निन्द्यमाना पुरीनरैः । आहन्यमानालीव शिशुभिर्यष्टिलेष्टुभिः ॥ २५ ।। अलकी-शूनी । भिक्षामलभमाना सा क्षुत्तृषापीडिताधिकम् । पुरे तत्राभ्रमत् पापमिहैव हि फलेग्रहि ॥ २६॥ युग्मम् ॥ दुष्टकुष्ठादिरोगौघपूयक्लिन्नाखिलाङ्गिका । अलोलुठीदिलापीठे नागश्री गिनीव सा ॥ २७॥ शाकिनीव स्मरन्ती सा रौद्रध्यानं दुरात्मिका । मृत्वागमद् महादुःखां, मघाख्यां नारकावनीम् ॥ २८॥ इत्थं स्वरूपं परिभाव्य भव्या, नागश्रियो दुर्गतिपातहेतु । पात्रे कुदानं न कदापि कार्यं यद्यस्ति वाञ्छा शिवसौधवासे ॥२९ ॥(इन्द्रवज्रा) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरि-विरचितायां श्रीदानोपदेशमालावृत्तौ कुदानविषये नागश्रीकथा समाप्ता ॥ कुदानवैषयिकं नागश्रीदृष्टान्तमुक्त्वा पात्रादिसामग्रयां सत्यामपि येषां न दानविषये धिषणा तेषां किं स्यादिति गाथाद्वयेनाहपुवकयकम्मवसओ पत्तेवि णिरग्गले विहवजाए । जेसिं ण दाणबुद्धी तण्हाए तरलियमणाण ॥६८॥ तेसिं सुपत्तपत्ती मणुयभवं जीवियं तह धणं च । घणियं सयलं विहलं मम्मणसिट्ठिव्व पडिहाइ ॥६९॥ व्याख्या-पूर्वकृतकर्मवशत:-पाश्चात्यभवोपार्जितपुण्यकर्म Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy