________________
३२५
कुदानविषये नागश्रीकथा तेषां धर्मरुचिर्नाम विनेयो मासपारणे । गतो नागश्रियो गेहं सर्पास्यमिव दर्दुरः ॥ ११॥ अस्मिन्नर्थव्ययः पाकश्रमश्च स्तान्न मे वृथा । अयं च भिक्षुर्भिक्षार्थी, तोषितोऽनेन जायताम् ॥ १२ ॥ इति निश्चित्य सा तस्मै कटुतुम्बीफलं ददौ । आत्मनः सौख्यवृक्षाय दवदानमिव ध्रुवम् ॥ १३ ॥ ततो यतिः समभ्येत्य सूरिभ्यस्तुम्बिकाफलम् । दर्शयामास तद्वीक्ष्य गुरवोऽप्यब्रुवन्निति ॥ १४॥ वत्स! नागश्रिया दुष्टभावादज्ञानतोऽथवा । कटुतुम्बीफलं दत्तं, विषवत्प्राणघातकम् ॥ १५ ॥ तदेतदुज्झ यत्नेन प्रासुके स्थण्डिले क्वचित् । सोऽप्यवाप्य गुरोराज्ञां विज्ञोऽगान्नगराद् बहिः ॥ १६॥ तबिन्दुं पात्रतो भूम्यां च्युतं सन्तं पिपीलिकाः । आस्वाद्य म्रियमाणास्ताः स विभाव्येत्यचिन्तयत् ॥ १७॥ यदेतद्विन्दुमात्रेण, जायते जन्तुसंक्षयः । तदस्मिन्नुज्झिते जीवाः के के स्युर्न हि भस्मसात् ॥ १८॥ भुक्तेऽस्मिन् स्यान्ममैकस्य मृत्युस्त्यक्ते च देहिनाम् । विचार्येति स्वयं साधुर्बुभुजे तत्फलं मुदा ॥ १९॥ तत आराधनां कृत्वोपशमश्रेणिमाश्रितः । विपद्योत्पद्यते स्मर्षिः श्रीसर्वार्थे सुरोत्तमः ॥ २० ॥ कस्माद् धर्मरुचेर्जातो विलम्ब इति वीक्षितुम् । सूरयः प्रेषयाञ्चक्रुर्मुनिसंघाटकं बहिः ॥ २१॥ तं विपन्नं मुनी दृष्ट्वा तदीयोपकृतिं ततः । लात्वा गुरुपदान्ते च मुक्त्वा तवृत्तमूचतुः ॥ २२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org