________________
३२२
श्रीदानोपदेशमाला (गा. ६५) उक्तं च-उपकृतिराभसिकतया क्षतिमपि गणयन्ति नात्मनो गुणिनः । जनयन्ति हि प्रकाशं दीपदशाः स्वाङ्गदाहेऽपि ॥ ५० ॥ तत्ताताशरणं सिंहमुपेक्ष्य मम गच्छतः । पुरतो वहतो नैव क्रमौ तत्करवाणि किम् ॥ ५१ ।। अतोऽतिदुःस्थितस्यास्य कृपारञ्जितचेतसा । अवश्यं दृष्टिरुद्घाट्या यद् भाव्यं तद् भवत्विति ॥ ५२॥ नायं सदुपदेशार्ह इति मत्वाग्रजो जगौ । भद्र! तावत्प्रतीक्षस्व, यावद् वृक्षं श्रयाम्यहम् ॥ ५३॥ इत्युक्त्वा तत्क्षणाज्येष्ठो बन्धुर्बुद्धिमहोदधिः । उच्चस्तरं समीपस्थमारुरोहतरां तरुम् ॥ ५४॥ कनीयानप्युपेक्ष्य स्वां मृतिं गुह्यकतोऽञ्जनम् । विनिष्काश्याञ्जयाञ्चक्रेऽनार्यो हर्यक्षचक्षुषी ॥ ५५ ॥ अञ्जनस्य सवीर्यत्वात् झटित्युद्घटिते स्फुटम् । विलोचने हरिः सर्वं द्रष्टुं लग्नः समंततः ॥ ५६ ॥ अन्यन्मृगादिकं तत्रापश्यन् सिंहः क्षुधातुरः ।। तमेव लोचनोद्घाटयितारं भक्षति स्म सः ॥ ५७ ॥ ततोऽन्यत्र गते सिंहे भूरुहादवरुह्य सः।। 'तेनैव मारितं बन्धुं वीक्ष्य दु:खादचिन्तयत् ॥ ५८॥ अहो अकस्मादीदृक्षो भ्रातुर्मरणलक्षणः । महाननर्थः संजज्ञे तदहं करवाणि किम् ॥ ५९ ।। यद्वा जातस्य पुंसो हि ध्रुवं मृत्युम॒तस्य च । ध्रुवं जन्मेति निश्चित्य वैद्यपुत्रोऽचलत्पुरः ॥ ६० ॥ क्रमेण वैद्यपुत्रः स्वां क्षेमेण पुरमागतः । जितशत्रुनृपं स्वस्त्ययनेनैवाभ्यनन्दयत् ॥ ६१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org