________________
कुपात्रोपकारदानविषये वैद्यसुतकथा
किं बहूक्तेन हे वत्सौ ! युवाभ्यां न्यायवर्त्मनि । तथा प्रवर्त्तितव्यं हि यथा स्याद्विशदं यशः ॥ ३८॥ इति तेनानुशास्येमौ सत्कृत्य वसनादिभिः 1 प्रमोदेनाभ्यनुज्ञातौ स्वधामगमनोपरि ॥ ३९ ॥ यदाज्ञपयतेत्युक्त्वा प्रणम्य च कलागुरुम् । शुभे क्षणे भिषक्पुत्रौ प्रतस्थाते गृहं प्रति ॥ ४० ॥ निरन्तरप्रयाणेनोल्लङ्घयन्तौ महीतलम् । तौ हृष्टमानसौ यावदर्धमार्गे समागतौ ॥ ४१ ॥ तावद् वनान्तरे ताभ्यामितश्चेतश्च पर्यटन् । क्षुधातिबाधितः क्षामः केसर्यन्धो निरीक्षितः ॥ ४२ ॥ तदा कनीयसा भ्रात्रा, प्रोचे तात! निशम्यताम् । वराको दृष्टिविकलः सिंहोऽयमुपचर्यते ॥ ४३॥ ज्येष्ठेन जगदे बन्धो! समाकर्णय मे वचः I अयं हरिर्महाक्रूरो विवेकविकलः पशुः ॥ ४४॥ दृश्युदघाटितमात्रायां सत्यां प्रथममेव हि ।
आवां भक्षयितातस्त्वं परित्यज कदाग्रहम् ॥ ४५ ॥ युग्मम् ॥ अनुजोऽप्यब्रवीद् भ्रातरिदानीमपि किं तव T
कृपयानाथदीनानां कार्या व्याध्युपशान्तयः ॥ ४६॥ इति तातोपदेशोऽयं विस्मृत्य प्रगतोऽथ सः 1 गरीयानवदद्वत्स! नैवासौ विस्मृतोऽस्ति मे ॥ ४७॥ युगलम् ॥ किन्तु नास्योपदेशस्य योग्यः केसर्यन्धो यदि । जिजीविषुस्तदा तिष्ठातिदुष्टाध्यवसायतः ॥ ४८ ॥ कनीयानभणद् भ्रातस्त्वं भीरुरिव लक्ष्यसे । उपकारेच्छुना पुंसा, चिन्त्ये न हि सुखासुखे ॥ ४९ ॥
Jain Education International
३२१
For Personal & Private Use Only
www.jainelibrary.org