SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ अतुष्टि-तुष्टिविषये निधिदेव - भोगदेवकथा रणन्मञ्जीरगम्भीरध्वनैर्बधिरिताम्बराम् । वराम्बरधरां काञ्चिद्दिव्यां नारीं निरैक्षत ॥ ८५ ॥ मन्त्री ससंभ्रमं तल्पात्समुत्थाय सविस्मयः । तामभाषत कासि त्वं किमर्थं समुपेयुषी ॥ ८६ ॥ साप्याह कुलदेव्यस्मि, निधिभोगाग्रदेवयोः I अत्रायाता तवामात्य ! संदेहापोहहेतवे ॥ ८७॥ शृणु भो ! निधिदेवेन प्राग्भवे तुष्टिवर्जितम् । दानं दत्तमभूत्तेनाभोगी सत्यपि वैभवे ॥ ८८ ॥ भोगदेवः पुनः पूर्वभवे तुष्टिसमन्वितम् । दानं ददौ मुनीन्द्रेभ्यस्तेनासौ पुण्यभोगभाक् ॥ ८९ ॥ निधिदेवो धनाढ्योऽभूद् भोगदेवश्च भोगवान् । मयादर्शि विशेषोऽयं त्वया वाच्यश्च भूभुजे ॥ ९० ॥ एवं प्रबोध्य मन्त्रीन्दु, कुलदेवी तिरोदधे । सोऽप्यनैषीन्निशाशेषमशेषमपि पारताम् ॥ ९१॥ ततः प्रातर्महामात्यः श्रेष्ठिनो भोगदेवतः । अवाप्तमानो विज्ञातप्रत्ययः स्वपुरं ययौ ॥ ९२॥ तयोर्वृत्तान्तकथनाद्विशल्यासंगमादिव । नृपस्वान्तस्थसंदेहशल्यमुद्धृतवानयम् ॥ ९३॥ गुरुवचोऽनुगतं चरिताद्भुतं समधिगम्य तयोः सचिवाननात् । स धरणीरमणीरमणस्ततः प्रभृति दानपरो दिवमासदत् ॥ ९४ ॥ (द्रुतविलम्बितम्) ३१५ इत्थं चरित्रं निधिदेवभोगदेवाह्वयोः श्रोत्रपथं प्रणीय । दानं ददीध्वं भविकाः ! प्रमोदाद्, यथा भवेद्वः परमार्थसिद्धिः ॥ ९५ ॥ (उपजाति: ) इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्य श्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ अतुष्टि - तुष्टिविषये निधिदेवभोगदेव श्रेष्ठिकथा समाप्ता ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy