SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३१४ श्रीदानोपदेशमाला (गा, ६१) पशुसेवकवर्गस्य भोज्यचिन्तां विधाय सः । श्रेष्ठी परिजनामात्ययुक्तो भोक्तुं प्रचक्रमे ॥ ७३ ।। अस्मिन्नवसरे सूपकारेऽतिव्यग्रचेतसि । ओतुरुज्जासयामास सहसा दधिभाण्डकम् ॥ ७४ ॥ तदाशयभरभ्रान्तः सूपकारो व्यचिन्तयत् ।। कथंकारमहं पारमाप्स्याम्यस्यागसो हहा ॥ ७५ ॥ एवं पुनः पुनायन् स यावद् व्याकुलोऽजनि । तावदैवाद् बहिर्गामाद्दधिभाण्डमढौकत ॥ ७६ ॥ मधुरं दधि सुस्निग्धं, सुधापिण्डमिवापरम् । तैर्भुक्त्वा चान्तमम्भोभिः कर्पूरक्षोदवासितैः ॥ ७७॥ त्रयोदशगुणोपेतं पञ्चसौगन्ध्यबन्धुरम् । ताम्बूलं दत्तवान् श्रेष्ठी मन्त्रिणे निजपाणिना ॥ ७८ ।। सचित्रचित्रशालायां, तल्पे मञ्जुलतूलिके । क्षणं विश्रम्य स श्रेष्ठी प्रबुद्धो मन्त्रिणा समम् ॥ ७९ ॥ समस्तशस्तशास्त्राणां, वार्तां कुर्वाणयोस्तयोः । पश्यतोर्नृत्यगीतादि दिनं क्षणमिवागमत् ॥ ८०॥ सायं देवार्चनं कृत्वा, धर्मध्यानं विधाय च । स भोगदेवानुज्ञातोऽलञ्चक्रे शयनीयकम् ॥ ८१ ॥ तद्भोगवैभवं भूयो भूयो भावयतः सतः । मन्त्रिणो निशि संजज्ञे पूर्ववदैवतध्वनिः ॥ ८२ ॥ रे पाप सूपकृत्पाश! निर्वासमसि वाञ्छसि । किन्तु ते दूषणं दध्युपायनाद्रक्षितं मया ॥ ८३ ॥ इति श्रुत्वा महामन्त्री दृशं दिक्षु विदिक्षु च । प्रक्षिपन्निर्निमेषाक्षीं द्युतिद्योतितदिग्मुखीम् ॥ ८४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy