SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३१३ अतुष्टि-तुष्टिविषये निधिदेव भोगदेवकथा भद्रासनेषु न्यस्तेषु प्रेष्यवगैरुपाविशत् ।। श्रीभोगदेवोऽमात्येन समं परिजनेन च ॥ ६१॥ तदने सेवकैर्मुक्ता मुक्तारत्नविभूषिताः । सुस्थिरा मेरुभूमीवत्तपनीयचतुष्किकाः ॥ ६२॥ विज्ञानसाराः सवृत्ताः स्थिरत्वगुणराजिताः । न्यस्ताः सज्जनचेष्टावत् कुण्डल्यस्तत्र सेवकैः ॥ ६३ ॥ कल्याणस्थूलकच्चोलकलिता स्थालमालिका ।। तत्र न्यस्तावतीर्णेव व्योम्नो मार्तण्डमण्डली ॥ ६४ ॥ पूर्णेन्दुवदना कुन्दरदना पद्मलोचना । सर्वाङ्गसुन्दराकारा, सर्वाङ्गीणविभूषणा ॥ ६५॥ नानाविधां रसवतीमानयन्ती सखीवृता । परिवेषाय तत्रागाद् गृहश्रीरिव तत्प्रिया ॥ ६६॥ युगलम् ॥ अत्रान्तरे तपस्तेजोनामवाचंयमेश्वरः । तन्मन्दिरमलञ्चक्रे पूर्वाद्रिमिव भास्करः ॥ ६७॥ तं मुनिं मूर्त्तिमद्धर्ममिव वीक्ष्य वणिग्वरः । उत्थाय संमुखं भक्त्या नत्वा चेति व्यजिज्ञपत् ॥ ६८॥ ममाद्य मन्दिरे कल्पद्रुमकामघटादयः । भगवन्! भवदालोकादसंशयमवातरन् ॥ ६९॥ तत्स्वामिन्नेषणीयानि भोज्यवस्तूनि संप्रति । गृहीत्वा मां भवाम्भोधिमध्यात्तारय तारय ॥ ७० ॥ महात्मा तानि शुद्धानि, ज्ञात्वा पात्रमधारयत् । भोगदेवोऽपि सत्तुष्ट्या दानं भगवते ददौ ॥ ७१ ॥ ततो यतिपतिर्भिक्षां शुद्धां लात्वा वनं गतः । आत्मपुण्यवपु:पुष्टिकारणं पारणं व्यधात् ॥ ७२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy