________________
अतुष्टि-तुष्टिविषये निधिदेव-भोगदेवकथा कदन्नभोजनेनासौ विदीर्णगलकन्दलः । मन्त्री सुधामुधाकारि क्षीरं वण्ठादयाचत ॥ ३७ ।। सकृपः सोऽपि तद्दातुं तस्मै यावत्समुद्यत । तावदुर्जनमैत्रीव पयोभाण्डमभज्यत ॥ ३८॥ तद् भग्नं सचिवो ज्ञात्वा कथंचित्तत्कदन्नकम् । भुक्त्वाचाम्य च तद्गेहचेष्टितं वीक्ष्य खिन्नवान् ॥ ३९ ॥ स्वयमास्वाद्य दत्त्वा च, मन्त्रिणे खादिरीत्वचम् । निधिदेवः समं तेन, नि:ससार गृहाद् बहिः ॥ ४० ॥ "विवादानो वणिकपुत्रैः कृपणो द्रविणाय सः । अतिवाह्य दिनं मन्त्रियुक् सायं गृहमाययौ ॥ ४१ ।। तूलिकालालिताङ्गाय, सोऽस्मै शयनहेतवे । शीर्णं जीर्णं कुथत्कन्थं शयनीयमदापयत् ॥ ४२ ॥ कृपणेष्वादिमां रेखां तस्य पश्यन् धनानि च । कन्थावैगन्ध्यदुस्थोऽयं मन्त्र्यमुच्यत निद्रया ॥ ४३ ॥ कथं निशातिवाह्येयमिति चिन्तयतो हृदि ।। अकस्मादेव तस्येदृग् वचोऽगात्कर्णगोचरम् ॥ ४४॥ शठ! वण्ठ! किमित्यस्मै पयो दातुमभीप्सितम् । परं पारं मयानीतोऽस्यागोऽब्धेर्भाण्डभङ्गतः ॥ ४५ ॥ इत्यस्य वचसः प्रान्ते विस्मयस्मेरचेतसः । जगाम कामिनी कापि पश्यतस्तस्य मन्त्रिणः ॥ ४६॥ वण्ठे तस्मिन्नवज्ञातचरित्रे मन्त्रिवृत्रहा । चिन्ताचान्ततमस्वान्तः कथंचिदनयन्निशम् ॥ ४७॥ ततोऽसौ निधिदेवस्यानुज्ञामादाय मन्त्रिराट् । श्रेष्ठिनो भोगदेवस्य सपताकं सतोरणम् ॥ ४८॥ * एष प्रयोगश्चिन्त्यः, विवादयन् इति संगतो भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org