________________
३१०
श्रीदानोपदेशमाला (गा. ६१) सोऽपि मन्त्रिवरस्यैवं, वचः क्रकचदारुणम् । उभाकर्णि समाकर्ण्य, जातमृत्युरिवाब्रवीत् ॥ २५ ॥ निधिदेवोऽहमेवास्मि, भद्र! विद्धो हहानिशम् । क्व गच्छामि क्व तिष्ठामि, मार्गणैर्मार्गणैरिव ॥ २६ ॥ त्वमपि प्राघुणकेष्वद्य संख्यां मद्धाम्नि पूरय । सनिर्वेदं स इत्यूचे, कुरु साकं मयाशनम् ॥ २७ ॥ तद्वेश्म प्राविशन्मन्त्री, निश्चेतुं स्वामिनो वचः । लभन्ते मानतां भूपान्निर्णीतार्था हि सेवकाः ॥ २८॥ स तत्र स्थूलचिकुरां, वक्रास्यां ह्रस्वनासिकाम् । जठरं पिठराकारं, बिभ्राणां काकजविकाम् ॥ २९ ॥ कलहप्रगुणामुष्ट्रगामिणी रासभस्वराम् । मलपिच्छिलवस्त्राङ्गी, काचकस्तीरभूषणाम् ॥ ३० ॥ धूलीधूसरितास्तोकबालजालसमाकुलाम् । तदीयां दयितां मन्त्री, दृष्टवान् शूकरीमिव ॥ ३१॥ कुलकम् ॥ ततो यामद्वयेऽतीतेऽपश्रुवन्मन्त्रिपुङ्गवम् । उपवेशयति स्मासावशनायासनं विना ॥ ३२॥ कोपाटोपवशाद् धूलीधूसरैर्दारकैः समम् । असमञ्जसं लपन्ती, सा वराकी तयोः पुरः ॥ ३३ ॥ तेमनं करवेल्लादि, भोजनं कङ्गकोद्रवम् । अतसीसंभवं तैलमत्यल्पं पर्यवेषयत् ॥ ३४॥ युग्मम् ॥ तेमनम्-व्यञ्जनम् । अत्यन्तमधुराहारभोजिनस्तस्य मन्त्रिणः । तत्कदन्नमधो नैव, याति स्म गलकन्दलात् ॥ ३५ ॥ अत्रान्तरे पयःपूर्णं, पात्रं शिरसि धारयन् । वण्ठोऽकस्मात्तथास्थस्य, मन्त्रिणोऽभ्यर्णमाययौ ॥ ३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org