________________
अतुष्टि-तुष्टिविषये निधिदेव- भोगदेवकथा
३०९ गुरवोऽचिन्तयन्नेवं, यदेष क्षोणिनायकः । दुर्विदग्धो विना स्पष्टदृष्टान्तेन न भोत्स्यते ॥ १३॥ तदाहुः सूरयो राजन्!, कन्यकुब्जनिवासिनौ । निधिदेवभोगदेवौ, संशयं ते हरिष्यतः ॥ १४॥ एवं गुरुमुखाम्भोजाद्देशनावचनामृतम् । निपीय मुदितस्वान्तो, राजा प्रासादमासदत् ॥ १५ ॥ अथो राजा निजामात्यं, समाकार्येत्यभाषत ।। सुमन्त्र! प्रत्ययाय त्वं, कान्यकुब्जपुरं व्रज ॥ १६ ॥ सुमन्त्रोऽपि नृपस्याज्ञां, किरीटीकृत्य मूर्धनि ।। तत्संशयापनोदाय, कान्यकुब्जपुरं ययौ ॥ १७ ॥ विंशतिस्वर्णकोटीनामाधिपत्यैकशालिनः । निधिदेवस्य गेहेऽगान्मन्त्री पृच्छन् जनव्रजम् ॥ १८॥ वेतालबालकोत्तालविशन्निर्गच्छदङ्गिनः । विशीर्णपर्णशालस्य, भग्नकुड्यस्य वेश्मनः ॥ १९ ॥ तस्य द्वारप्रदेशस्थं, मलीमसतनूलतम् । असंस्कृतशिर:केशं, निशाचरमिवापरम् ॥ २०॥ लम्बमानाधरद्वन्द्वं, किरिवद्दन्तुराननम् ।। दधानमुदरं स्थूलं, पिङ्गाक्षं ह्रस्वनासिकम् ॥ २१ ॥ कुर्वाणं कलहं रौद्रं, व्यवहारिनरैः समम् । वसानं वाससी जीर्णे, दारिद्र्यमिव मूर्तिमत् ॥ २२॥ नरं निरीक्ष्य सोऽप्राक्षीन्मन्त्री वैदेशिकोऽस्म्यहम् । द्वारपाल! लघु ब्रूहि, निधिदेवः क्व वर्त्तते ॥ २३ ॥ पञ्चभिः कुलकम् ॥ सोप्याख्यन्निधिदेवेन, साकं किं ते प्रयोजनम् । सचिवोऽप्यूचिवांस्तस्यातिथीभूय समागमम् ॥ २४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org