________________
३०८
श्रीदानोपदेशमाला (गा. ६१)
तस्यामनन्यसामान्यसौजन्यक्षीरसागरः । चतुरङ्गमहासेनो, मित्रसेनो नृपोऽजनि ॥ २॥ तस्य मित्रं च मन्त्री च, सुमन्त्रः समजायत । यश्चतुर्विधबुद्धीनामेकमोकः क्षमातले ॥ ३॥ तत्रैयुरेकदा प्रज्ञावज्ञातसुरसूरयः ।। प्रबोधयन्तो जनतां, विनयधरसूरयः ॥ ४॥ तेषामागमनं श्रुत्वा, मित्रसेनो विशांविभुः । सुमन्त्रमन्त्रिणा सार्द्धं, सूरीन्द्रान् वन्दितुं ययौ ॥ ५ ॥ प्रभुपादाम्बुजान्नत्वा, निविष्टे विष्टपेश्वरे । सूरयो विदधुर्धर्मदेशनां भवनाशिनीम् ॥ ६॥ भो भो भव्या भवाब्धौ ज्वरमरणजरानक्रचक्रप्रकीर्णे, श्वासातीसारकासप्रसृतमुखझषक्षुब्धमध्यप्रदेशे । माद्यद्दारिद्रमुद्राबहलजलभृते मज्जतां प्राणभाजाम् , दानं हस्तावलम्बो भवति शिवपदप्राप्तयेऽपि प्रकामम् ॥ ७॥ (स्रग्धरा) उक्तं च-दानं महिमनिदानं, कुशलनिधानं कलङ्ककरिसिंहः । श्रीकलकण्ठीचूतः सिद्धिवधूसंगमे दूतः ॥ ८॥ (आर्या) यथा भवन्ति कल्याणात्, किरीटकटकादयः ।। तथैव दानादानन्दसौभाग्यविभवादयः ॥ ९॥ यथा हि मलिनं वासो, वारिणा विशदं भवेत् । तथैव तुष्टिपूर्वं द्राक्, दानं भोगाय जायते ॥ १०॥ अतुष्टितुष्टिदत्तस्य, प्रदानस्य प्रभावतः । एके स्युर्धनिनो भोगहीना अन्ये तु भोगिनः ॥ ११ ।। इत्याकर्ण्य नृपः प्राह, नाथ! मिथ्या वचो न वः । किन्त्वीक्ष्यते धनाढ्यानामन्तरं न च भोगिनाम् ॥ १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org