________________
३०७
साधुवन्दनकदानवैषयिकं दुर्गतकदृष्टान्तमुक्त्वा नवमस्य
तुष्टिदानस्वरूपम्
तुष्टिदानस्य स्वरूपमाह
जेसिं चित्तं मुणिजणमवलोइय सहरिसं हवइ णिच्चं । तेसिं सिद्धिमयच्छी करगहणेणं अणुग्गहणं ॥ ६० ॥
I
व्याख्या- येषां-पुण्यवताम्, चित्तं मनो, मुनिजनं-साधुलोकम्, अवलोक्य - दृष्ट्वा नित्यं सर्वदा, सहर्षं - सानन्दम् भवति जायते । तेषां विवेकिनाम्, सिद्धिमृगाक्षी - मुक्तिकामिनी, करग्रहणेन - विवाहेनानुगृह्णातिसाभिलाषमालिङ्गतीति गाथार्थः ॥
-
अतुष्ट्या तुष्ट्या च पात्रदानं दत्तं दुःखाय सुखाय च जायत इत्याहदाउं सुविहियदाणं, विसायहरिसे कुणंति जे मणुया । णिहिदेव - भोगदेवुव्व, ते दुहसुहभायणं हुंति ॥ ६१ ॥
ܝ
ये मनुजाः सुविहितदानं सुष्ठु - शोभने, विधौ - कृत्ये, हिता-अभीष्टाः विहिता कीदृशास्ते ? यदुक्तं
जे गाणदंसणचरित्तपहेणुरत्ता, खंती इमाइ दस भेय सुधम्म सत्ता । सज्झायझाणणिरया णिरया अमाया, वुच्वंति ते सुविहिया विहियप्पमाया । १ तेभ्यो दानमशनादि दत्त्वा - वितीर्य, विषादं पश्चातापम्, ये पुनर्धन्योऽहं कृतपुण्योऽहमिति मनसि हर्षं तोषम् कुर्वन्ति-विदधति। ते निधिदेवभोगदेववद् दुःखसुखभाजनम् - अभोगभोगस्थानम्, भवन्ति-जायन्त इति गाथार्थः ॥ भावार्थ: पुनरयम्, तथाहि
समस्ति शस्तवस्तूनामालयः पूस्तमालिनी । या तुङ्गचङ्गचैत्याग्रजाग्रत्कलशमालिनी ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org