SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०६ भो भव्या भववारिधौ निरवधौ जन्माम्बुपूर्णे स्फुरत्पापव्यापतरङ्गभङ्गिकलिते दुष्कर्मनक्रोद्धुरे । आधिव्याधिविधानवाडवहविर्घोरे नृणां मज्जताम्, श्रीदानोपदेशमाला (गा. ५९) श्राग् निस्तारकरी जिनस्य हि भवेदेकैव दीक्षातरी ॥१०७॥ (शार्दूलविक्रीडितम्) एवं गुरुमुखाद्धर्मोपदेशं विनिशम्य सः । वैराग्यरङ्गितस्वान्तः क्ष्माशक्रस्तान् व्यजिज्ञपत् ॥१०८॥ भगवंस्तावदत्रैव, स्थातव्यं यावदात्मनः I राज्यभारं निवेश्यास्मिन् जामातरि समागमम् ॥१०९ ॥ गुरवोऽप्यवदन् राजन्मा प्रमादो विधीयत । ओमित्युक्त्वा परीवारवृतो नृपोऽगमद् गृहम् ॥ ११० ॥ वितीर्य पुण्यपालाय, राज्यं विक्रमराजराट् । अमात्यसहितो दीक्षामग्रहीद् गुरुसन्निधौ ॥ १११ ॥ प्रपाल्य खड्गधाराग्रचङ्क्रमोपमितं व्रतम् । श्रीमद्विक्रमराजर्षिः सामात्यस्त्रिदिवं ययौ ॥ ११२॥ अथ श्रीपुण्यपालोऽपि, पालितावनिमण्डलः । साधुवन्दनकृत्यादिकरणे प्रगुणोऽभवत् ॥ ११३॥ स क्रमाद् गुरुसामग्र्यां जातायां दयितायुतः । परिव्रज्यामुपादाय वव्राज त्रिदशालयम् ॥ ११४ ॥ ततश्च्युत्वा विदेहेषु प्राप्य मानुष्यकं भवम् । दीक्षां लात्वा च स क्षीणकर्मा मोक्षमवाप्स्यति ॥ ११५ ॥ इति दुर्गतस्य चरितं हि मनसि विनिधाय धीधनाः ॥ साधुचलनयुगवन्दनकं विदधीत येन लभत श्रियोऽनघाः ॥ ११६॥ ( सौरभकम्) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्य श्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ साधुवन्दनदानविषये दुर्गतककथा समाप्ता ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy