________________
मुनेर्वन्दनकदाने श्रीदुर्गतनैगमकथा
३०५ ततो नरवरोऽनङ्गसुन्दरीं निजनन्दिनीम् । तस्य दत्त्वा मुदा पुण्यपाल इत्यभिधां व्यधात् ॥ ९५ ॥ अमात्योऽपि तदीयांहौ कङ्कणद्वयमेक्ष्य सः । दध्यौ स्वमानसे यन्मे, सुताया अप्ययं पतिः ॥ ९६॥ तदस्मा अहमप्यात्मपुत्री मदनमञ्जरीम् । वितरामीति निश्चित्य, मन्त्री तस्मै सुतां ददौ ॥ ९७ ॥ तदा पुण्याधिकः पुण्यपालः कान्ताद्वयीवृतः । रतिप्रीतियुतोऽनङ्ग इव कामं व्यराजत ॥ ९८॥ हे जामातस्तवापूर्वाः शकुनाः फलिताः किल । इति भूमीभुजा प्रोक्ते, पुण्यपालः समालपत् ॥ ९९ ॥ नरेन्द्र! शकुनानां नो फलमीदृग्विधं भवेत् । किन्तु साधुपदाम्भोजद्वयवन्दनजं फलम् ॥ १० ॥ एतच्च केनचित्पुण्याधिकेन किल देहिना । अवाप्यते भवाम्भोधौ, दक्षिणावर्त्तशङ्खवत् ॥१०१ ॥ इत्युक्त्वा विरते तस्मिन्नकस्माद्वनपालकः । समेत्य प्रणतिप्रह्वो भूपमेवमवर्धयत् ॥१०२ ॥ देवाद्य भवदुद्यानवने सुस्थितसूरयः । समैयरुः समासारप्रीणितक्षोणिमण्डलाः ॥१०३ ।। एतदाकर्ण्य कर्णाभ्यां, जातरोमाञ्चकञ्चुकः । प्रदाय वनपालाय स्वर्णाद्यं पारितोषकम् ॥१०४॥ पुण्यपालमहामात्यसुमतिभ्यां समन्वितः । श्रीमद्विक्रमराजेन्द्रः सूरीन्द्रान् वन्दितुं ययौ ॥१०५॥ युग्मम् ॥ भक्त्या प्रणिपनीपत्योपविष्टे विष्टपप्रभौ । सूरयो दिदिशुर्धर्मदेशनां क्लेशनाशिनीम् ॥१०६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org