________________
३०४
श्रीदानोपदेशमाला (गा. ५९)
कथं स ज्ञास्यतेऽमुष्याः सुताया दयितो मया । इति चिन्तातुरो मन्त्री प्रातर्भूपान्तिकं ययौ ॥ ८३॥ तस्मिन्नत्वोपविष्टे मापालः कोपादभाषत ।। हे मन्त्रिंस्त्वयि मन्त्रीन्द्रमुद्रां शासति यत्पुरे ॥ ८४॥ अन्यायो वर्तते तत्किं सुप्त एव हि तिष्ठसि । मन्त्री प्राह महाराज! किमकृत्यमजायत ॥ ८५॥ युग्मम् ॥ नृपेण निजनन्दिन्याः प्रोक्ते व्यतिकरेऽखिले । उवाच सचिवः स्वामिन्! यथा तव तथा मम ॥ ८६ ।। कथमित्युदिते राज्ञा सुमतिर्मन्त्रिवृत्रहा । जगाद निजनन्दिन्या अपि वृत्तं यथास्थितम् ॥ ८७ ॥ ततः कोपोत्कटः क्ष्मापः प्रोवाच सचिवेश! सः । आनाय्य हन्यतेऽन्यायकारी चौर इवाधमः ॥ ८८॥ सचिवोऽप्यूचिवान्नाथ! कर्तुमेवं न युज्यते । यद्वा हतेऽस्मिन्नाजन्म कन्या शल्यायते पितुः ॥ ८९ ॥ अन्यच्च लोके प्रसरत्ययशोऽतः सुतापतिम् । आनाय्य कन्यादानेन द्राक्कृतार्थय पार्थिव! ॥ ९० ॥ ततो मन्त्रिगिरा शान्तकोपाटोपः क्षितीश्वरः । पुरुषान् प्रेषयामास तदानयनहेतवे ॥ ९१ ॥ तेऽपि भ्रान्त्वा पुरे शून्यविपणौ कङ्कणाङ्कितम् । सुप्तं किञ्चिन्नरं दृष्ट्वोत्थाप्य च क्ष्मापमानयत् ॥ ९२ ॥ क्षितीश्वरोऽपि तं वीक्ष्योपलक्ष्य च सविस्मयः । प्राह मन्त्रिन्! स एवायं मुद्गपोट्टलविक्रयी' ॥ ९३ ॥ यन्मया नगरे मुद्गविक्रये वारितेऽप्ययम् । लाभमीदृशमाप तदहो भाग्यविजृम्भितम् ॥ ९४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org