________________
३०३
मुनेर्वन्दनकदाने श्रीदुर्गत गमकथा बाला प्राह वयस्ये! चेत्प्राणिते मे प्रयोजनम् । तदा सुदर्शनश्रेष्ठिसुतः संयोज्यतां मयि ॥ ७१ ॥ ओमित्युक्त्वा वयस्यापि ततो गत्वा सुदर्शनम् । तस्यां वचनभङ्गीभिरनुरागिणमातनोत् ॥ ७२ ॥ पाणिग्रहणसंकेतस्थानं शून्यापणे निशः । निशीथेऽद्य निवेद्यैषाभ्येत्यास्यै तन्न्यवेदयत् ॥ ७३ ॥ सुदर्शनोऽपि तां वार्ता, पितुरग्रे न्यवेदयत् । सोऽप्याह वणिजामेतत्कर्तुं वत्स! न युज्यते ॥७४॥ तदेतत्करणीयात् त्वं स्वधियं शिथिलीकुरु । इति तातगिरालानबद्धः सोऽस्थाद् गजेन्द्रवत् ॥ ७५ ॥ मन्त्रिपुत्र्यपि सामग्री कृत्वा वैवाहिकी जवात् । तया वयस्यया युक्ता तत्र शून्यापणे ययौ ॥ ७६ ।। सुप्तश्रेष्ठिसुतभ्रान्त्या दुर्गतं पद्मिनी जगौ । स्वामिन्नुत्तिष्ठ सा बाला त्वां वरीतुमुपस्थिता ॥ ७७॥ सोऽपि धूर्त इवोत्थाय, मौनवांस्तन्निवेदिताः । क्रियाः कङ्कणबन्धाद्या विवाहान्ताश्च संव्यधात् ॥ ७८॥ पाणिग्रहमहे जाते, पद्मिनी पारितोषिकम् । वराद्ययाचे सोऽप्यूचे लायैनं मुद्गपोट्टलम् ॥ ७९ ॥ सखि! केनापि धूर्तेन तच्छलाद्वञ्चिते हहा । इत्युदित्वा भयभ्रान्तस्वान्ते ते जग्मतुर्गृहम् ॥ ८० ॥ ततो मातृपुरो बाला, स्वं वृत्तान्तं वयस्यया । कथयामास साप्येतत्पत्युरग्रे न्यवेदयत् ॥ ८१ ।। सोऽप्युवाच प्रिये! कार्ये व्यतीते किं विधीयते । परं प्रभाते सञ्जाते सर्वं भव्यं विधास्यते ॥ ८२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org