________________
मुनेर्वन्दनकदाने श्रीदुर्गतनैगमकथा
३०१ बालापि चीनवासांसि परिधाप्य निबध्य च । कौसुम्भकण्डमहौ तमुपयेमेऽग्निसाक्षिकम् ॥ ४७ ॥ पाणिग्रहमहे वृत्ते, मालती धनलोलुपा ।। तस्मात्प्रसाददानं सा, सानन्दा समयाचत ॥ ४८ ।। मदङ्गच्युतवासांसि गृहाणेति ब्रुवन्नसौ । धात्र्याज्ञायि स्वरेणान्यः कोऽप्ययं स तु नो पुमान् ॥ ४९ ।। इति धात्रीशपुत्र्यग्रे धात्र्योक्ते सा कृशोदरी ।। भयभीता तथैवाशु सौधात्तं भुव्यमोचयत् ॥ ५० ॥ ततः सा चिन्तयाचान्तचित्ता धात्रीमवोचत ।। हहा देवादिदं जातमतः किं क्रियतेऽधुना ॥ ५१॥ सा प्राह पुत्रि! स्वाम्बायाः, पुरो गत्वेदमुच्यते । यतो व्यसनपाथोधौ निम्नगैः स्मर्यते हि सा ॥ ५२॥ ततो धात्रीयुतानङ्गसुन्दरी मातुरन्तिकम् ।। वेगादगात्तयादिष्टा सापि तत्पुरतो जगौ ॥ ५३॥ स्वामिन्यनङ्गसुन्दर्या गवाक्षविनिविष्टया । एकदा रूपलावण्यकिंकरीकृतमन्मथः ॥ ५४॥ राजमार्गे परिभ्राम्यन्, कश्चित्सामन्तनन्दनः । सुधीरमरकेत्वाह्नः, स्वदृशोरतिथीकृतः ॥ ५५॥ युग्मम्॥ तत्रासावनुरक्ता मां प्रजिघाय तदन्तिकम् । गत्वाहमपि सामन्ततनयं विनयोक्तिभिः ॥ ५६ ॥ अस्यां दृढानुरागं तं विधायाद्य निशार्द्धके ।। संकेतं मञ्चिकायोगाद् व्यधामेतत्करग्रहे ॥ ५७॥ युग्मम् ॥ स पुमानद्य केनापि हेतुना स्वप्रतिश्रुतम् । अप्यस्यास्तव नन्दिन्या, न व्यधात्पाणिपीडनम् ॥ ५८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org