________________
३००
श्रीदानोपदेशमाला (गा. ५९) तस्य मुद्गा न लातव्या इति विक्रमभूपतेः ।। वचोऽथवा य एतांश्च ग्रहीता स करास्पदम् ॥ ३५ ॥ इत्युदित्वा गते राजपुरुषे सति दुर्गतः । "मुद्गविक्रीणनायाशु हट्टवीथ्यामुपाययौ ॥ ३६॥ तेन विक्रीयमाणोऽपि मुद्गग्रन्थिन कैरपि । अगृह्यत यतो राज्ञ आज्ञा कैरिह खण्ड्यते ॥ ३७॥ व्यचिन्ति च निजे चित्ते शकुनानामहो फलम् । आस्तां लाभोऽधुना तावन्नीव्या अपि हि संशयः ॥ ३८॥ भवतु प्रातरेतांश्च विक्रेष्यामीति चेतसि ।। निश्चित्य दुर्गतः सायंकाले शून्यापणेऽस्वपत् ॥ ३९ ॥ अथो निशीथे संवृत्ते देवतायतने क्वचित् । नान्दीनिनादस्तस्यागात्कर्णगोचरचारिताम् ॥ ४०॥ अयं तु नृत्यसूचाकृदतस्तत्र प्रयाम्यहम् । लास्यं पश्यामि यद् दृष्टेः फलं द्रष्टव्यदर्शनम् ॥ ४१ ॥ ततो दुर्गतको नाट्यदिदृक्षुर्मुद्गपोट्टलम् । तत्रैव मुक्त्वा वेगेनाऽचालीद्देवकुलं प्रति ॥ ४२ ॥ मार्गे गच्छन्नसौ यावन्नृपवेश्मान्तिकं गतः । तावत्तद्भित्तिसंलम्बमानां मञ्ची न्यभालयत् ॥ ४३ ।। आरोहाम्यहमस्यां हि पश्यामि किल कौतुकम् । इति ध्यात्वाभयो यावन्मञ्चिकामारुरोह सः ॥ ४४॥ तावद्विक्रमराजस्य भूपस्य तनुजन्मनः । अनङ्गसुन्दरीनाम्न्या, धात्र्या मालतिकाख्यया ॥ ४५ ॥ आकृष्यत बभाषे च वत्से! सोऽयं तवेप्सितः । वरः स्वयंवरायातस्तद्विधेहि स्वमीहितम् ॥६॥ (त्रिभिर्विशेषकम्) *एष प्रयोगश्चिन्तनीयः, मुद्गविक्रयणायाशु इति शुद्धो भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org