________________
मुनेर्वन्दनकदाने श्रीदुर्गतनैगमकथा
२९९ तदाकर्णनतो जातप्रमोदभरमन्थरः । उर्वीकृत्य भुजद्वन्द्वं दुर्गतो नृत्यमातनोत् ॥ २३ ॥ अस्मिन्नवसरे श्रीमान् श्रीअचलपुरेश्वरः । राजा विक्रमराजाख्यश्चतुरङ्गचमूवृतः ॥ २४॥ राजपाट्यामटन् दूरात्तं तथास्थितमैक्ष्य सः । सविस्मयस्तदाह्वानहेतवे प्राहिणोन्नरम् ॥ २५॥ युग्मम्॥ सोऽपि गत्वा तमाह स्म रे! त्वां केनापि हेतुना । राजाकारयति क्षिप्रमत एहि मया समम् ॥ २६ ॥ दुर्गतोऽप्यभयस्तेन समं तत्र गतो द्रुतम् । वसुन्धराधिराजेन पृष्टो नृत्यस्य कारणम् ॥ २७॥ सोऽप्याह शृणु भूपाद्य वर्त्मन्यागच्छता मया । श्रीसद्गुरुपदाम्भोजे वन्दनं विदधे मुदा ॥ २८॥ जज्ञिरे शकुनाः शान्ताश्चाभूदैवज्ञसंगमः ।। स मया तत्फलं पृष्टोऽप्राक्षील्लाभोऽद्य ते महान् ॥ २९॥ ततस्तच्छ्रवणोत्पन्नमुदो मे नृत्यकारणम् । इत्याकर्ण्य नृपोऽप्याह ग्रन्थौ वस्तु किमस्तु रे! ॥ ३०॥ मुद्गाः सन्तीति तेनोक्ते नृपश्चेतस्यचिन्तयत् । यदेतेभ्यः कियानायो भाव्यतोऽस्य मुधा मुदः ॥ ३१॥ मूलात्तमप्यहं छेत्ता कुठार इव भूरुहम् ।। ततस्तं नरमाकार्य नृप एवमशिक्षयत् ॥ ३२॥ रेऽधुनैव पुरं गत्वा, त्वया घोष्यं यदस्य हि । यः कोऽपि मुद्गानादाता तं राजा दण्डयिष्यति ॥ ३३ ॥ सोऽपि वेगात्पुरे गत्वा, पौराणां पुरतो जगौ । यः कोऽपि स्वशिर:क्लृप्तमुद्गग्रन्थिः समेति भोः! ॥ ३४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org