________________
२९८
श्रीदानोपदेशमाला (गा. ५९)
१२ ॥
कियद्भिर्वासरैरेवं कुर्वता तेन किंचन । समुपाये धनं स्वीयचेतसीति व्यमृश्यत ॥ १० ॥ यदेष व्यवसायोऽपि, गर्हाकृद् व्यवहारिणाम् । तदेनमपि संत्यज्यान्नवाणिज्यं करोम्यहम् ॥ ११ ॥ ततोऽसौ दुर्गतो मुद्गग्रन्थिं कृत्वा स्वमूर्धनि । श्री अचलपुरं याति विक्रीयायाति चालयम् ॥ एवं प्रतिदिनं तेन कुर्वाणेनान्यदा पथि । कायोत्सर्गस्थितः साधुर्मूर्तो धर्म इवैक्ष्यत ॥ १३ ॥ दर्शनादेव रोमाञ्चकञ्चुकीभूतविग्रहः । दुर्गतः सद्गुरोरङ्घ्रियुगले वन्दनं व्यधात् ॥ १४॥ भगवानपि तं भावि भद्रं विज्ञाय तत्क्षणात् । प्रतिमां पारयित्वा श्रीधर्माशिषमदान्मुदा ॥ १५ ॥ व्याजहार च हे भद्र! त्वया साधुसमागमे । अवश्यमेव कर्तव्यं वन्दनं दुःखखण्डनम् ॥ १६ ॥ अस्मिंश्च विहितेऽत्रैव प्राणी राज्यादिसौख्यभाक् । भवेत् परभवे स्वर्गापवर्गसुखभागपि ॥ १७॥ इति श्रुत्वा मुनिं नत्वा कृतकृत्यः स दुर्गतः । मुद्गग्रन्थिं पुनर्मूर्ध्नि धृत्वाऽचालीत्पुरं प्रति ॥ १८ ॥ तस्याग्रे व्रजतः साधुपदवन्दनदानतः पदे पदे बभूवोच्चैः शुभा शकुनसंहतिः ॥ १९॥ इदानीमेव चेत्कोऽपि सिद्धपुत्रो मिलत्यलम् ।
1
तदा पृच्छामि शान्तानां शकुनानामहं फलम् ॥ २० ॥ इति ध्यानपरे तस्मिन्नकस्मात्सिद्धपुत्रकः । समियाय यतः पुण्योदये किं किं न जायते ॥ २१ ॥ स सिद्धपुत्रतोऽप्राक्षीच्छकुनानामलं फलम् । सोऽप्याहाद्य तवापूर्वः कोऽपि लाभो भविष्यति ॥ २२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org