________________
मुनेर्वन्दनकदाने श्रीदुर्गतनैगमकथा
२९७ सुरतरुर्वाञ्छितपदार्थसार्थानामभिलषितवस्तुविस्ताराणां संपादकस्तथेदमपि सुगुरूणां-सुसाधूनां, चरणकमले-पदपङ्कजे, वन्दनकदानंनमस्कारकरणं, विनिर्मितं-सत्कृतं सन्नरसुरश्रियं-मामर्त्यलक्ष्मी वितरति-ददाति। यथा दुर्गतनामनैगमस्य-दुर्गताभिधस्य वणिज इति गाथायुगार्थः ॥ भावार्थस्तु कथानकादभ्यूह्यस्तच्चेदम्अस्ति नाम्ना पुरं पृथ्वीतिलकं तिलकं भुवः । यत्राभिवीक्ष्यते दण्डशब्दश्छत्रेषु नो नृषु ॥ १॥ तत्राकृत्या च नाम्ना च, सुन्दरो वणिजां वरः । तस्यापि च तथैवासीच्छीमती जीवितेश्वरी ॥ २॥ वल्लभेन समं भोगान् , भुञ्जानाया यथासुखम् । तस्या मृगीदृशः कोऽपि जीवः कुक्षाववातरत् ॥ ३॥ तस्मिन् गर्भस्थिते तातो ययौ कीनाशमन्दिरम् । जातमात्रे तु मातापि हहा विधिविजृम्भितम् ॥ ४॥ ततो विपन्नपितृकं दुःखावस्थागतं शिशुम् ।। विनिरीक्ष्य नरास्तस्य, दुर्गतेत्यभिधां व्यधुः ॥ ५॥ कृपया ज्ञातिवर्गेण पाल्यमानः क्रमेण सः । बालभावं व्यतिक्रम्य समजन्यष्टवार्षिकः ॥ ६॥ स दुर्गतः परागारभिक्षया प्राणवृत्तिकृत् । अन्येद्युरिति दध्यौ यद् भिक्षेयं लाघवास्पदा ॥ ७॥ तदिमां गौरवप्राणहरी विषधरीमिव ।। हित्वा कमप्यहं कुर्वे, व्यवसायं यशस्करम् ॥ ८॥ सोऽपि नीवीं विना न स्यादिति चित्ते विचिन्त्य सः । तृणकाष्ठाद्युपाहारैश्चकार प्राणजीविकाम् ॥ ९॥ नीवीम्-धनसमुच्चयम्, 'मूडी' इति गुर्जरभाषायाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org