SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९६ श्रीदानोपदेशमाला (गा. ५१.) तावद्विधिवशादर्द्धच्छिन्नद्रुर्मरुतेरितः । तेषां त्रयाणामुपरि पविपात इवापतत् ॥ ३१ ॥ ततस्त्रयोऽपि ते मृत्वा पञ्चमे त्रिदशालये ।। पुष्पोत्तरविमानश्रीभोगाभोगभुजोऽभवन् ॥ ३२ ॥ इति यथा बलिभद्रमुनिप्रभोम॑गवरेण कृतं पदसेवनम् । इह तथा ह्यपरैरपि पूरुषैरनुदिनं क्रियतां सुखकाङ्क्षिभिः ॥ ३३ ॥ (द्रुतविलम्बितम्) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ शुश्रूषादानविषये मृगकथा समाप्ता ।। शुश्रूषादानवैषयिकं मृगदृष्टान्तमुक्त्वा अष्टमं वन्दनदानस्वरूपं गाथायुगलेन प्ररूपयन्नाहदोसापहारयं दिणयरव्व रयणायरं सुमेरुव्व । वंछियपयत्थसत्थाण साहणं कप्परुक्खुव्व ॥ ५८॥ सुगुरुचरणकमले वंदणदाणं विणिम्मियं संतं । वियरेइ णरसुरसिरिं जह दुग्गयणामणिगमस्स ॥ ५९॥ व्याख्या-दिनकरवद्दोषापहारकम् , यथा दिनकरः- श्रीसूर्यो दोषापहारको रात्र्युच्छेदकः, तथा वन्दनकदानमपि दोषापहारकं कुकर्मादिदोषखण्डकं यदुक्तमागमे __ वन्दणएणं भंते ! जीवे किं जणयइ ? गोयमा ! वन्दणएणं णीयागोयं कम्मं खवेइ, उच्चागोयं णिबन्धइ, सोहग्गं च णं अप्पडिहयं आणाफलं णिवत्तेइ, दाहिणभावं च णं जणयइ ॥ [श्रीउत्तराध्ययने२९/१०] सुमेरुवद्रत्नाकरम् , यथा सुमेरु:. कनकाचलो रत्नानां पद्मरागपुष्परागादीनामाकर उत्पत्तिस्थानम्, अन्यत्रोत्पादाभावात्। तथेदमपि रत्नानामाकरः, कोऽर्थः रत्नानां ज्ञानदर्शनचारित्रलक्षणानामाकरो जन्मभूमिः, कल्पवृक्षवद् वाञ्छितपदार्थसार्थानां साधकम् , यथा कल्पवृक्षः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy