________________
मुनेः शुश्रूषादानविषये मृगदृष्टान्तः
रथकारो मुनिं मूर्त्तिमन्तं धर्ममिवागतम् । विनिरीक्ष्य निजस्वान्ते चिन्तयामासिवानिदम् ॥ १९ ॥ अद्य मे सदने कल्पद्रुमः प्रादुरभूत्तराम् । यदेष प्राप्तवान् भोज्यसमये मुनिसत्तमः ॥ २०॥ तदस्मै मुनये स्वान्तमोदकान्मोदकानहम् । वितीर्य वेगादात्मानं तारयामि भवार्णवात् ॥ २१ ॥ ततः स रथकृद् भक्तिभरनिर्भरमानसः 1 पञ्चाङ्गप्रणिपातेन प्रणनाम मुनीश्वरम् ॥ २२॥ ऊचे च भगवन्नेतान् सिंहकेसरमोदकान् । उपाददीयाः सन्तो हि प्रार्थनाभङ्गभीरवः ॥ २३॥ द्रव्यादिभेदतो ज्ञात्वा, प्रासुकान्मोदकान् मुनिः । उपाददे यथा स्वादुफलानि वनपालकः ॥ २४॥ तेन सत्पात्रदानस्य पुण्येन रथकृत्कृती । बबन्ध देवलोकायुरहो दानफलं कलम् ॥ २५॥ बलानुगः कुरङ्गोऽपि सुरङ्गोऽदो व्यचिन्तयत् । मन्येऽमुं धन्यमध्वन्यं येनायं पारितो यतिः ॥ २६॥ धन्योऽयमपि राजर्षिर्भिक्षार्थं न पुरान्तरे । गन्तव्यमिति यः स्वीयाभिग्रहं पर्यपूरयत् ॥ २७॥ किन्त्वेक एव दुष्कर्मवशात्पशुगतिं गतः पात्रदानाक्षमस्तत्किं करोमि कृपणाशयः ॥ २८ ॥ परमेतदभूत्सुष्ठु यदेतौ पुरुषोत्तमौ । प्रदानादानसंपूर्णकामौ दिष्ट्याद्य वीक्षितौ ॥ २९ ॥ यावदेवं शुभध्यानविधानासक्तचेतसः । तिष्ठन्ति बलभद्रर्षिरथकारमृगा भृशम् ॥ ३०॥
Jain Education International
For Personal & Private Use Only
२९५
www.jainelibrary.org