SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९४ श्रीदानोपदेशमाला (गा. ५७) ततः संवेगमापन्नः कृतासन्नासनो मृगः । प्रावर्त्तत तमाराद्धं विनेय इव सद्गुरुम् ॥ ७॥ यत्र यत्र प्रयात्येष राजर्षिस्तत्र तत्र सः ।। तद्गुणप्रीणितस्वान्तः, सारङ्गोऽप्यनुगच्छति ॥ ८॥ एकदा लाङ्गली साधुर्मासक्षपणपारणे । युगमात्रां भुवं पश्यन् भिक्षार्थं प्राविशत्पुरि ॥ ९॥ लाङ्गली-बलभद्रः । तदैका कामिनी साक्षादेवरूपविडम्बकम् । विनिरीक्ष्य ऋषिं मारशरगोचरतां गता ॥ १० ॥ तद्रूपमोहितस्वान्ता कान्ता कूपतटस्थिता । कुम्भकण्ठभ्रमात्पुत्रकण्ठे पाशं न्यवेशयत् ॥ ११ ॥ यावत्कूपान्तरे मुग्धा क्षेप्तुं प्रववृते सुतम् । तावद् बलमुनीन्द्रेणागत्य सा प्रतिबोधिता ॥ १२॥ ततः स आत्मनो रूपं निन्दन् श्रीरोहिणीसुतः । व्यावृत्य गिरिमायातो वक्रान्मार्गमिव ग्रहः ॥ १३ ॥ नातः परमितः शैलाद् गत्वा ग्रामेऽथवा पुरे । उपादास्येऽशनं राम इत्यभिग्रहमग्रहीत् ॥ १४॥ तस्यैव काननं श्रित्वा स्मृत्वा तद्वैशसं हृदि । श्रीरामनामराजर्षिः स तेपे दुस्तपं तपः ॥ १५ ॥ राज्ञादिष्टोऽन्यदा कोऽपि रथकृत्काष्ठहेतवे । तत्राययौ परीवारपाथेयादिसमन्वितः ॥ १६॥ तस्यादेश्या मनुष्यौघास्तीवधारैः परश्वधैः । शाखिनोऽनेकशश्छिन्नानर्धच्छिन्नांश्च चक्रिरे ॥ १७ ॥ भोज्योद्यतेषु तेषु श्रीरामर्षिः पारणाय सः । तत्राजगाम तत्पृष्ठे सारङ्गोऽपि समाययौ ॥ १८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy