SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मुनेः शुश्रूषादानविषये मृगदृष्टान्तः २९३ पालनं तत्र निरतानां-सदा तल्लीनमानसानाम्, पुनः किंभूतानां ? राग-रोषरहितानां रागः स्त्र्यादिष्वभिष्वङ्गलक्षणो, द्वेषो-वैरिषु प्रद्वेषकरणं ताभ्यां रहितानां-मनोवाक्कायैर्दूरीभूतानां अर्थान्मुनीनां शुश्रूषादिकरणं-सेवनं प्राशुकान्नपानचिन्तारूपम् , सकलदुरितानांनिखिलसांसारिक-दुःखानां निवारणं-निषेधकं स्यादिति गाथार्थः ।। तत्फलं दृष्टान्तेन द्रढयन्नाहसिरिबलिभद्दमुणीसरसंसेवणदाणओ मिगेणावि ।। जं बंभलोयपयवी पत्ता तं किं ण चुजकरं ॥ ५७॥ व्याख्या - श्रीबलभद्रमुनीश्वरसंसेवनदानत आस्तां तावजनैर्यन्मृगेणापि-पशुजातीयेनापि यद् ब्रह्मलोकपदवी-पञ्चमदेवलोकसुखसंपत् , प्राप्ता-करतलकलितीकृता, तत्किं नाश्चर्यकरम् अपि तु विस्मयकरमिति गाथार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम्जम्बूद्वीपाभिधे द्वीपे तुङ्गीनामा महीधरः । विद्यते भरते क्षोण्याः कीर्त्तिस्तम्भ इवोच्चकैः ॥१॥ तस्मिन्नेको वसत्येणः स्वभावसरलाशयः । सर्वदा यस्य धीरस्ति केवलं तृणभक्षणे ॥ २॥ तमन्यदा द्वारवतीदाहाजाते यदुक्षये । जराकुमारनिर्मुक्तपृषक्तनिहते हरौ ॥ ३ ॥ सिद्धार्थाभिधगीर्वाणगीर्वाणहतशुग्बलः । अरिष्टनेमिनादिष्टचारणश्रमणान्तिके ॥ ४॥ गृहीतसंयमः श्रीमान् रामो नाम महामुनिः । तपश्चिकीरलञ्चक्रे मराल इव मानसम् ॥ ५॥ कुलकम् ॥ तत्र चित्रतप:सक्तं विरक्तं पापकर्मतः । बलं दृष्ट्वा स सारङ्गो जातिस्मरणभागभत ॥ ६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy