________________
२९२
1
उप्त्वा निजधनं सप्तक्षेत्र्यां स प्रिययान्वितः श्रीसुव्रतगुरोः पार्श्वे संवेगाद् व्रतमाददे ॥ १४८ ॥ श्रीरत्नचूडो दयितासमेतस्तप्त्वा तपो दुस्तपमन्तरारीन् । विजित्य कैवल्यमुपार्ण्य चाशु शिवाङ्गनाकामुकतामुवाह ॥१४९॥ (उपजाति:)
श्रीदानोपदेशमाला (गा. ५६)
एवं श्रुत्वा चन्दनचरितं जगदाश्चर्यविधायि त्वरितम् । पात्रे संस्तारादिकदानं भव्या ! दत्त शिवैकनिदानम् ॥ १५० ॥ ( मत्तावृत्तम् ) ॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहार श्रीसंघतिलकसूरिशिष्य श्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ संस्तारकादिदानविषये श्रीचन्दनवणिक्कथा समाप्ता || संस्तारकादिदानवैषयिकं चन्दनवणिग्दृष्टान्तमुक्त्वा सप्तमं महात्मनां शुश्रूषाकरणाख्यं दानस्वरूपं बृंहयन्नाह - वरचरणकरणधारणणिरयाणं रागरोसरहियाणं । सुस्सूसणाइकरणं निवारणं सयलदुरियाणं ॥ ५६ ॥
व्याख्या - वरे परमार्थेन सुन्दरे ये चरणकरणे जिनवरप्रणीते के ते इत्याह
वये समणधम्म संजम वेयाक्वं णाणाइतियं तव कोहणिग्गहा इइ चरणमेयं
च बंभगुत्तीओ
Jain Education International
113 11
१२
१२
पिंडविसोही, समिई, भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ, अभिग्गहा चेव करणं तु ॥२ ॥ *
[ ओघनिर्युक्ति- भा. - २]
[ ओघनिर्युक्ति- भा. - ३] इति प्रत्येकं द्वे सप्ततिभेदरूपे तयोर्यद्धारणं सम्यक्तया प्रति
* तुलना--प्रवचनसारोद्धारे- गा०५५१ / ५६२... तथा दशवैका० हारि०वृत्तौ - २४२ पृष्ठम् ।
For Personal & Private Use Only
www.jainelibrary.org