SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ संस्तारकादिदानविषये श्रीचन्दनवणिक्कथा दानशालाः प्रतिग्रामं जिनानां भवनानि च | विधाप्य शासनं जैनमेकच्छत्रं नृपोऽतनोत् ॥ १३६ ॥ वत्सराणां सहस्राणि प्रपात्यैश्वर्यमेकदा । प्रासादशिखरारूढो, रत्नचूडः प्रियान्वितः ॥ १३७॥ ददर्श तालहिन्तालश्यामले जलदान्तरे । ऐन्द्रं धनुर्यमागारतोरणाभं वियोगिनाम् ॥ १३८ ॥ विलोकयन्निदं राजा मनसीति व्यतर्कयत् । अहो व्योम्नि कथं भावाः स्वभावेन भवन्त्यमी ॥ १३९ ॥ एतच्चापमुपादाय धारासारैः पयोधरः । वर्षन् गर्जंश्च सोत्कर्षं ग्रीष्मं प्रहरति द्रुतम् ॥ १४० ॥ इत्थं पश्यत एवास्य सहसा वायुरंहसा । सञ्जहे जलदो राज्ञः समं मोहेन तत्क्षणात् ॥ १४१ ॥ इति वीक्ष्य नृपो दध्यौ भावान् पश्यत पश्यत I मन्यते तान् कथं मूढो, भङ्गुरानपि शाश्वतान् ॥ १४२॥ धारासारैर्घनो वर्षन् संहृतो मरुता यथा । तथैव ह्रियतेऽत्यर्थं प्राणी धीरोऽपि मृत्युना ॥ १४३॥ यत्सौख्यं दिव्यमप्यग्निस्थितसूतवदस्थिरम् । तत्का मनुष्यभोगेषु नित्यता चिन्त्यते जनैः ॥ १४४॥ राज्यमन्तः पुरं सेना श्रियः परिकरोऽपि च I तडिल्लोलमिदं सर्वं विदन्नपि न बुध्यते ॥ १४५ ॥ क्रियते पोषणा यस्य भोगाभोगैर्निरन्तरैः । तदप्यङ्गं न हि स्वीयं कृतघ्न इव जायते ॥ १४६ ॥ संसारासारतामेवं विमृश्य नृपपुंगवः । चित्राङ्गदाभिधे पुत्रे राज्यभारं न्यवेशयत् ॥ १४७॥ Jain Education International For Personal & Private Use Only युगलम् ॥ २९१ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy