________________
२९०
श्रीदानोपदेशमाला (गा. ५५)
भ्रामं भ्राममनन्तकायिनिचयेऽनन्ताननन्तान् भवान्, पृथ्वीवारिकृपीटयोनिमरुतां कायेषु संख्यातिगान् । तांश्च द्वित्रिचतुःशरेन्द्रियगतौ संख्यागतान् मा मुधा, कुर्वीध्वं नरजन्म पुण्यवशतः प्राप्तं कथंचिज्जनाः ! ॥ १२४ ॥ (शार्दूलविक्रीडितम्)
श्रीरत्नचूडभूमीन्द्रः श्रुत्वैवं धर्मदेशनाम् । सूरिं प्रणम्य पप्रच्छ स्वरूपं पूर्वजन्मनः ॥ १२६॥ सूरिराह शतद्वारपुरे राजन् ! पुरोऽभवः । वणिक्चन्दननामा त्वं कमलामहिलाप्रियः ॥ १२७॥ जायापती युवां श्रुत्वा सुस्थिताचार्यसन्निधौ । संस्तारदानमाहात्म्यं गृह्णीथः स्मेत्यभिग्रहम् ॥ आजीवितव्यमावाभ्यां साधुभ्यः साधुभक्तितः । संस्तारासनपीठान्नदानं देयमसंशयम् ॥ १२९॥ युवाभ्यां प्रतिपाल्यामुं चिरकालमभिग्रहम् । विधाय पुण्यं मृत्वा च प्रपेदे स्वर्ग आदिमः ॥ १३० ॥ तत्र शाश्वतजैनार्चार्चनैर्भोगैश्च भासुरैः ।
१२८ ॥
मुदातिवाहयाञ्चक्रे क्षणवत्सागरद्वयी ॥ १३१ ॥ ततश्चन्दनजीवस्त्वं च्युत्वा रत्नपुरप्रभो ! । रत्नप्रभस्य पुत्रोऽभू रत्नचूडाभिधानतः ॥ १३२॥ च्युत्वापि कमलाजीव एलापुरपुरेशितुः । पुरन्दरस्य पुत्र्यासीन्नाम्ना काञ्चनमालिका ॥ १३३॥ सेयं पूर्वभवस्नेहादिहापि त्वत्प्रियाजनि । संस्तारदानमाहात्म्याद्राज्यं च प्रापथुर्युवाम् ॥ १३४॥ इति श्रुत्वा गुरोर्वाणीं जातजातिस्मृती उभौ । श्राद्धधर्ममुपादाय जग्मतुर्निजमन्दिरम् ॥ १३५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org