________________
२८९
संस्तारकादिदानविषये श्रीचन्दनवणिक्कथा ज्ञात्वेति सहसा हर्षोत्कर्षोत्फुल्लविलोचनः । वत्सागच्छ मदुत्सङ्गं श्रयेत्याह महीपतिः ॥ ११२ ॥ कुमारोऽपि धनुर्मुक्त्वा महीलुलितमस्तकः ।। ननाम विनयानम्रो मुदा पितृपदाम्बुजम् ॥ ११३ ॥ उत्सङ्गसङ्गिनं सूनुं, विधाय वसुधापतिः । शिरश्चुचुम्बानन्दाश्रुजलैरभिषिषेच च ॥ ११४ ॥ पित्रा पृष्टः स्ववृत्तान्तं रत्नचूडो न्यवेदयत् । तं चाश्चर्यकरं श्रुत्वा विशामीशो विसिष्मिये ॥ ११५ ॥ वधूः काञ्चनमालापि ननाम श्वशुरं मुदा । वत्से! श्वश्रूः समाभूया इत्याशिषमदान्नृपः ॥ ११६ ॥ सिन्धुरस्कन्धमारूढौ पितृपुत्रौ भुवो विभू । सोत्सवं विधृतच्छत्रौ, प्रविष्टौ रत्नपत्तनम् ॥ ११७ ॥ रत्नप्रभनृपोऽन्येधुर्दत्त्वा राज्यं स्वसूनवे । श्रीसुन्दरगुरोः पार्श्वे, परिव्रज्यामुपाददे ॥ ११८ ॥ रत्नचूडनृपो राज्यद्वयमद्वैतसौख्यभाक् । पालयामास भूपालपालीनतपदाम्बुजः ॥ ११९ ॥ अन्येधुनन्दनोद्याने श्रीरत्नपुरमण्डने । समागात्केवलज्ञानी सूरिः क्षेमंकराभिधः ॥ १२० ।। समेत्य वनपालेन, रत्नचूडनरेश्वरः ।। सभायां वर्धयाञ्चक्रे गुरोरागमवार्त्तया ॥ १२१ ॥ तच्छ्रुत्वा वनपालाय तुष्टिदानं प्रदाय सः । नृपोऽगमद् गुरुं नन्तुं युतः काञ्चनमालया ॥ १२२ ॥ सूरि प्रणिपनीपत्योपविष्टे विष्टपेश्वरे । भगवान् विदधे धर्मदेशनां पापनाशिनीम् ॥ १२३ ॥ * पितापुत्रौ इति पाठः समुचितः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org