________________
२८८
यद्यात्रासमये भेरीभाङ्काराकीर्णकर्णकैः । चकम्पिरे धराधीशैर्वाति वाते द्रुमैरिव ॥ १००॥ देवैलापुरभूपालस्तवोपरि महाबलः 1 समायाति चरैरेवं प्रोक्तो रत्नप्रभप्रभुः ॥ १०१॥ सोऽपि स्वसैन्यं संमील्याचलत्तत्संमुखं मुदा । वीरा हि समरारम्भं मन्यन्तेऽधिकमुत्सवात् ॥ १०२ ॥ परस्परं चमूचक्रं जनकाङ्गजयोस्तयोः ।
श्रीदानोपदेशमाला (गा. ५५ )
संग्रामायामिलत्कांस्यतालयामलवत् क्रमात् ॥ १०३ ॥ निवार्य वीरसंहारं ससंरम्भौ महारथौ । परस्परं प्रपेदाते रथारूढौ रणोत्सवम् ॥ १०४॥ गर्जन्तौ चण्डकोदण्डदण्डटङ्कारनिस्वनैः । वर्षतः स्म शरासारैर्नभोभाद्राम्बुदाविव ॥ १०५॥ शराः शरासनान्मुक्तास्ताभ्यामर्द्धपथे गताः 1 परस्परमखण्ड्यन्त रोरस्येव मनोरथाः ॥ १०६ ॥ रत्नप्रभोऽथ निःशङ्कं स्वपुत्रमविदन्नहन् । रत्नचूडोऽपि सापेक्षं जानानो जनकं निजम् ॥ १०७ ॥ यद्यद् गृह्णाति कोदण्डं पिता तत्तत् तनूद्भवः । शरैः क्षुरप्रैश्चिच्छेद कुठारैरिव काननम् ॥ १०८॥ अच्छिद्यन्त कुमारेण क्रमेण धरणीपतेः । आतपत्रं पताका च रथो रणमनोरथः ॥ १०९॥ कान्दिशीको विशामीशश्चेतस्येवमचिन्तयत् । कृतः कथमनेनाहं छिन्नपल्लवशाखिवत् ॥ ११०॥ कुमारप्रहितं बाणमक्षरावलिमालितम् । पुरः पतितमादाय, वाचयामास भूविभुः ॥ १११॥ * एष प्रयोगश्चिन्त्य:, धातोरकर्मकत्वात् चकम्पे नु इति संगतो भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org